________________
अनुमानगादाधर्यां सामान्यनिरुक्तिप्रकरणम्
* दीधितिः ननु प्रतिबन्धकज्ञान विषयव्यभिचारादि घटकसाध्यादेरपि प्रत्येकं हेत्वाभासतापत्तिः ।
* गादावरी
दोषस्याऽपि वारणसम्भवे यथार्थपदं व्यर्थम् इति दोषस्य दुरुद्धरतया तस्यैव यथार्थपदाऽघटितलक्षणान्तरानुसरणे बीजत्वमाह नन्विति । एकदेशस्यापि विशिष्टघटकतया हेत्वाभासपदार्थत्वस्येष्टत्वादाह प्रत्येकमिति ! प्रत्येकपदार्थ पर्याप्त साध्यतावच्छेदकाद्यवच्छिन्नस्येत्यर्थः । हेत्वाभासतापत्तिःहेत्वाभास पदार्थत्वापत्तिः । यद्रूपावच्छिन्नज्ञानस्यानुमित्यविरोधित्वं
६८
ॐ चन्द्रकला
टेत्यादिनेत्यादिः । ततः एव = प्रकारान्तरानुसरणत एव । पूर्वदोषस्यापि = पर्वतां निर्वह्निरित्यादिभ्रममादाय वह्नयभावादावतिप्रसंगस्यापि । तस्यैव = यथार्थपदस्य व्यर्थतारूपदोषस्यैव । एकदेशस्यापि = साध्याभाववद्वृत्तित्वरूपव्यभिचारघटकसाध्याभावादेरपि । विशिष्टघटकतया = निरुक्तव्यभिचारादिघटकतया ।
ननु प्रत्येकं हेत्वाभासत्वमिष्टमेवेत्यत आह यद्रूपेति । यद्रूपावच्छिन्नप्रकारकनिश्चयस्येत्यर्थः । अनुमित्यविशेषित्वम् = अनुमित्यप्रतिबन्धकत्वम् । व्यवहारे * कलाविलासः
व्यर्थत्वमभिहितमिति चेन्न, जलं वहयभावविरोधीतिज्ञानकालीनस्य हृदो जलवान् वह्न्यभाववान् वेत्यादिज्ञानस्य संशयत्वात् तस्य च सर्वोशे यथार्थतया तदीयविषयिताया अनुमितिप्रतिबन्धकतातिरिक्तवृत्तित्वेनाऽसम्भववारणाय यद्रूपावच्छिन्नविषयितायां निश्चय वृत्तित्वविशेषणस्यावश्यकतया संशयमादाय दोषाऽसम्भवेन यथार्थपदस्य सुतरां वैयर्थ्यात् । न चाहार्याप्रामाण्यज्ञानास्कन्दितज्ञानवारणाय तत्सार्थक्यमिति वाच्यम्, वह्निमान् हृद इतिज्ञानोत्तरं यत्रेच्छाप्रयोज्यं वह्नयभाववान् हृद इतिज्ञानं जातं तादृशज्ञानस्यापि सर्वाशे यथार्थात्मकाहार्यतया तद्वारणाय अना हार्यत्वस्य यत्र भाविज्ञानमप्रमेत्य प्रामाण्यज्ञानं ततो वह्नयभाववान् हृद इतिनिश्चयस्ततोऽतीतज्ञानमप्रमेतिज्ञानं तत्राप्रामाण्यज्ञानद्वय पुटित बाघनिश्चयस्य यथार्थस्य वारणायाऽप्रामाण्यज्ञानानास्कन्दितत्वस्यापि निश्वयविशेषणताया आवश्यकत्वात् तद्वारणायापि तत्सार्थक्यासम्भवादिति ध्येयम् ।
हेत्वाभासपदार्थत्वापत्तिरिति । अत्र स्वावच्छेदकतात्वावच्छिन्नप्रतियोगिताकपर्याप्त्यंनुयोगितावच्छेदकत्वसम्बन्धेन वह्नित्वादिगतैकत्ववृत्तिर्या
विशेष्यता
तन्निरूपित दोषपद प्रयोज्यप्रकारतायां प्रमानिरूपितत्वापत्तिरिति पर्यवसितार्थः आपत्याकारस्तु तादृशविशेष्यतानिरूपितदोषपदप्रयोज्यप्रकारत्वं यद्यनुमितिकारणीभूताभावप्रतियोगियथार्थज्ञानविषयत्वावच्छिन्नं स्यात् तदा प्रमानिरूपितं स्यादिति ।
" Aho Shrutgyanam"
1.