________________
चन्द्रकला-कलाविलासाख्यटीकाद्वयालंकृतम्
% गादाधरी अत्र यथार्थपदेन सद्धेतुस्थलेऽनुमितिविरोधिभ्रमविषयसाध्याभावादापतिप्रसङ्गवारणेऽपि असद्धेतुस्थले तादृशप्रमाविषयदोषघटकसाध्यादेः प्रत्येक दोषत्वापत्तिदुर्वारैव, तदर्थ प्रकारान्तरानुसरणे च तत एव पूर्व
चन्द्रकला दकसम्बन्धावच्छिन्नवृत्तितावच्छेदकत्वप्रतियोगिकस्वरूपसम्बन्धेन स्वाश्रयनिष्ठा. धिकरणतानिरूपितवृत्तितावच्छेदकत्वाभावस्य विवक्षणान्न कोऽपि दोषः, समवायावच्छिन्नवृत्तितावच्छेदकत्वप्रतियोगिकस्वरूपसम्बन्धस्य सामान्यनिष्टाधिकरणतानिरूपितवृत्तितावच्छेदकत्वस्य व्यधिकरणसम्बन्धतया तेन सम्बन्धेन तदभावस्य द्रव्य स्वस्वादौ सत्त्वेन सामान्यं द्रव्यत्ववदित्याकारकज्ञानस्य भ्रमत्वसम्भवादिति वाच्यम, एवमपि स्वरूपतो द्रव्यत्वप्रकारकगुणविशेष्यकज्ञानस्य प्रमावापत्तेरवारणात् गणनिष्ठाधिकरणतानिरूपितवृत्तितानवच्छेदकधर्मावच्छिन्नप्रकारतानिरूपितत्वस्य निरुक्तज्ञानीयगुणनिष्टविशेष्यतायामसत्त्वेन गुणनिष्टविशेष्यतायाःस्वपदानुपात्तस्वात् इति चेन्न,स्वनिरूपितप्रकारतावच्छेदकसम्बन्धसामान्ये यत्प्रतियोगिकत्वस्वाश्रयानुयोगिकत्वोभयाभावस्तनिष्ठप्रकारतानिरूपितं यत् यत्स्वं तत्तदनिरूपकत्वस्यैव विविक्षितत्वाददोषात् । निरुक्तस्थले स्वरूपतो द्रव्यत्वप्रतियोगिकरवगुणानुयोगिकस्वयोः -समयाय विरहेण स्वपदेन गुणनिष्टविशेष्यताया धत्तुंशक्यत्वादिति वदन्तीति दिक् ।
यथार्थपदाऽघटितद्वितीयलक्षणानुसरणस्य बीजं प्रदर्शयतां दीधितिकृतां नन्वित्यादिग्रन्थं व्याख्यातुं भूमिकामारचयति अत्रेति । निरुक्तप्रथमलक्षण इत्यर्थः । यथार्थपदपदार्थान्वयि घटकत्वं सप्तम्यर्थः, यथार्थपदेनेति । यथाविवक्षितार्थकेस्यादि । सद्धेतुस्थले = पर्वतो वह्निमान् धूमादित्यादौ । अनुमितीति । पर्वतादिधर्मिकवयाद्यनुमितिप्रतिवन्धकपर्वतो निर्वह्रिरित्यादिभ्रमविषयवह्नयभावादावित्यर्थः । असद्धेतस्थले धूमादिसायकवह्वयादिहेतुकस्थले । तादृशेति। प्रकृतानुमितिप्रतिबन्धकयथार्थज्ञानविषयदोषघटकसाध्यतदभावादेरित्यर्थः । तदर्थम् = प्रत्येक दोषस्वापत्तिवारणार्थम् । प्रकारान्तरेति । यारशविशि
कलाविलासः भ्रमभिन्नत्वम् , वैशिष्ट्यञ्च स्वनिरूपितत्व-स्वाश्रयनिष्ठाधिकरणतानिरूपिताधेयतावदन्यत्वोभयसम्बन्धेन । आधेयतावत्त्वञ्च स्वानवच्छेदकानवच्छिन्नत्व-स्वसामानाधिकरण्य-स्वावच्छेदकसम्बन्धावच्छिन्नत्य- स्ववृत्तित्वैतचतुष्टयसम्बन्धेन । स्ववृत्तित्वञ्च स्वानवच्छेदकानवच्छिन्नत्वसम्बन्धेनेति तु तत्त्वम् ।
तदथै प्रकारान्तरानुसरणे चेति । ननु प्रकारान्तरानुसरणे इत्यस्य यद्रूपाचच्छिन्नविषयित्वं प्रकृतानुमितिप्रतिबन्धकतानतिरिक्तवृत्ति तद्रूपत्वमित्यर्थकताया वक्तव्यतया ताशयद्रूपावच्छिन्नविषयितायाः संशयादौ सस्वेन प्रकृतानुमितिप्रतिबन्धकतातिरिक्तवृत्तितयाऽसम्भववारणायैव यथार्थपदसार्थक्यसम्मवे कथं तस्य
"Aho Shrutgyanam"