________________
अनुमानगादाधर्या सामान्यनिरुक्तिप्रकरणम
2 गादाधरी * विषयता तदनिरूपकत्वस्य सर्वाशे प्रमात्वस्य विवक्षणीयतया दर्शितभ्रमाणां किश्चिदंशे प्रमात्वेऽपि न तानादाय दोष इति भावः ।
विशेष्यता तत्तदनिरूपकत्वरूपस्येत्यर्थः। जलं वह्निमदित्याकारकभ्रमीयतथाविधजलनिष्ठविशेष्यत्वानिरूपकत्वस्य पर्वतो निर्वह्रिरित्याकारकज्ञानेऽपि सत्त्वेन तस्य यथार्थतया तादृशज्ञानमादायातिव्याप्तितादवस्थ्यं स्यादतो या येति वीप्सादरः । तथाच यावदन्तर्गतनिरुक्तज्ञानीयपर्वतनिष्ठविशेष्यताया अप्युपादानसम्भवान कोऽपि दोषः । सवाशे = स्वविषयीभूतयावत्पदार्थाशे । प्रमात्वस्येति । लक्षणघटकीभूतस्येत्यादिः । दर्शितभ्रमाणाम् = पर्वतो निर्वह्विरित्यादिभ्रमाणाम् । किञ्चिदंशे = पर्वतत्वाधंशे। प्रमात्वेऽपि = पर्वतत्वादिमति पर्वतस्वादिप्रकारकत्वेऽपि । तानादाय - तादृशभ्रमानादाय । दोष इति । तथाच स्वनिरूपितप्रकारतावच्छेदकसम्बन्धावच्छिन्ना यो स्वाश्रयनिष्टाधिकरणतानिरूपिता वृत्तिती तदभाववन्निष्टप्रकारतानिरूपितं यत् यत् स्वं विशेष्यत्वं तदनिरूपवज्ञानत्वमेव यथार्थज्ञानस्वमिति न आंशिकप्रमात्मकतादृशभ्रमानादाय पर्वतप्रमेय स्वादावतिव्याप्तिरित्याशयः।
अथैवं स्वाधिकरणेत्यादिरीत्या याथार्यनिर्वचने गुणो विशिष्टसत्तावानित्याकारकशानस्य प्रमारवापत्तिः, गुणनिष्टाधिकरणतानिरूपितसमवायावच्छिन्नवृत्तितायाः विशिष्टसत्तायां सत्त्वात् विशेष्यवृत्तिपदार्थस्य विशिष्टानुयोगिकाभावानभ्यु. पगमात् स्वपदेन तादृशज्ञानीयविशेष्यताया धर्तु मशक्यत्वात् । नच लक्षणघटकयथार्थज्ञानशब्दस्यैव निरुत्तार्थकतया गुणो विशिष्टसत्तावानिस्याकारकज्ञानस्य यथोक्तरीत्या भ्रमत्वाभावेऽपि न क्षतिरिति वाच्यम् , तथा सत्यपि गुणो विशिष्टसत्ताभाववान् गुणस्वादिति सद्धेतौ गुणो विशिष्टसत्तावानिस्याकारकज्ञानमादाय विशिष्टसत्तादेर्दोषत्वापत्तेर्दुर्वारस्वात् । नच स्वनिरूपितप्रकारतावच्छेदकसम्बन्धावच्छिन्ना या स्वाश्रयनिष्ठाधिकरणतानिरूपिता वृत्तिता तदनवच्छेदकधर्मावच्छिन्नप्रकारतानिरूपितं यत् यत् स्वं तत्तदनिरूपकत्वस्यैव सर्वाशे प्रमात्वस्य विवक्षणान्न गुणो विशिष्टसत्तावानित्याकारकज्ञानस्य प्रमावापत्तिः, गुणनिष्टाधिकरणतानिरूपितसमवायावच्छिन्नवृत्तिवानवच्छेदकत्वस्य विशिष्टसत्तात्वे सत्वात् स्वपदेन साहशज्ञानीयगुणनिष्ठविशेष्यताया एवोपादानसम्भवादिति वाच्यम्,सामान्यपक्षकद्रव्यस्वाभावसाध्यकस्थले द्रग्यभेदसाध्यकस्थले वा सद्धेतौ द्रव्यत्ववत्सामान्यमित्याकारकज्ञानमादाय सामान्यादेर्दोषत्वापत्तेः, सामान्यादिनिष्ठाधिकरणतानिरूपितसमवायावछिन्नवृत्तित्वाप्रसिद्धया स्वपदेन निरुक्तझानीयसामान्यनिष्ठविशेष्यताया धतु मशक्यत्वात् , निरुक्तज्ञानस्य यथोक्तप्रमारवानपायात्। नच स्वनिरूपितप्रकारतावच्छे.
"Aho Shrutgyanam"