________________
चन्द्रकला-कलाविलासाख्यटीकाद्वयालंकृतम्
* गादाधरी * त्तत्र साध्यतावच्छेदके हेतुसमानाधिकरणाभावप्रतियोगितावच्छेदकत्वत्व स्यापि लाभात्तत्र तदवगाहिभ्रमस्य दर्शिताकारतासम्भवादित्यपि वदन्ति । भ्रमादिति पश्चभ्यर्थः प्रयुक्तत्वम , तस्य प्रतिबन्धपदार्थेऽनुत्पादेऽन्वयः । यथार्थेतीति । यथार्थपदेन वन्यधिकरणप्रकारावच्छिन्ना या या
* चन्द्रकला ® तत्रेत्यादि । तस्मिन् प्रमेयत्वत्वरूपसाध्यतावच्छेदके इत्यर्थः । तत्र = तादृशसाध्यतावच्छेदके । तदवगाहिभ्रमस्य = अभिधेयत्वसमानाधिकरणाभावप्रतियोगितावच्छेदकत्वावगाहिभ्रमस्य । दर्शितेति । अभिधेयत्वं मेयत्वस्य व्यभिचारीत्याकारकतासम्भव इत्यर्थः । वदन्तीति । अन्ये वितिपूर्वेणान्वयः । अनया रीत्या अभिधेयत्वं मेयत्वस्य व्यभिचारीति वाक्यजन्यबोधस्य सर्ववाद्यसिद्धस्य भ्रमत्वोपपादनं क्लिप्टकल्पनयैवेत्यस्वरसवीजं वदन्तीत्युक्त्वा सूचितमिति ध्येयम् ।
पञ्चम्यर्थ इति । तथाच पर्वतो वयभाववानित्यादिभ्रमप्रयुक्तानुमित्यनुत्पादेऽपि यथार्थपदोपादानान्न तत्र तत्र पर्वताभिधेयत्वादी अतिव्याप्तिरिति समुदितदीधितितात्पर्यमित्याशयः ।।
ननु यथार्थपदस्य तद्वति तत्प्रकारकज्ञानार्थकतया तदुपादानेऽपि पर्वतो वह्नयभाववानित्याकारकज्ञानमादाय पर्वतादावतिव्याप्तिः, तादृशज्ञानस्य वशित्वादिमति वद्वित्वादिप्रकारकतया यथार्थज्ञानपदेन धर्तुं शक्यत्वात् । न च भ्रमभिन्नत्वमेव याथाय निरुक्त ज्ञानस्य वयभावाभाववति वह्नयभावप्रकारकत्वेन भ्रमत्वान्न ताहशज्ञानमादायोतिव्याप्तिरिति वाच्यम् , तथा सति हृदो बह्निमानित्यादौ यदा घटत्वेन पटावगाहिघटो वह्नयभाववाश्च हृद इति समूहालम्बनं ज्ञानं जातं तदा वह्नयभावविशिष्टे हदे लक्षणसमन्वयानुपपत्तेः निरुक्तसमूहालम्बन ज्ञानस्य भ्रमत्वात् । भेदस्याव्याप्यवृत्तितामते पर्वतो निर्वतिरित्यादिज्ञानस्यापि वह्नित्ववाद्विशेष्यकत्वावच्छेदेन भ्रमभिन्नत्वाञ्चेति ध्येयमित्यत आह स्वव्यधिकरणेति । स्वं विशेष्यता, तयधिकरणस्तदंधिकरणेऽवसमानो यः प्रकारस्तन्निष्टप्रकारतानिरूपिता या या.
कलाविलासः तधर्मेण महानसीयवतिमानित्यनुमितिकारणत्वम् , एवं यत्र महानसीयत्वं धर्मितावच्छेदकीकृत्य वह्नित्वं भासते तत्र महानसीयाभाववदवृत्तिधूमवानितिपरामर्शस्य वह्नित्वावच्छिन्नमहानसीयत्वनिहावच्छेदकताकप्रतियोगिताकत्वसम्बन्धावच्छिन्नमहानसीयनिष्ठप्रकारतानिरूपिताभावत्वावच्छिन्नविशेष्यताघटितधर्मेण वह्निमहानसीयवानित्यनुमितौ कारणत्वमिति न काप्यनुपपत्तिः ।
स्वव्यधिकरणेति । विशेष्यताविशिष्ट प्रकारत्वाऽनिरूपकत्वमेव सर्वांश
"Aho Shrutgyanam"