________________
६४ अनुमानगादाधर्या सामान्यनिरुक्तिप्रकरणम्
* गादाधरी * तावच्छेदकवह्नित्वावच्छिन्ननिरूपितत्वसम्बन्धेन प्रकृत्यर्थस्यान्वयः, मत्व
यार्थः स्वरूपसम्बन्धवान , तस्य चाभेदसम्बन्धेन प्रथमान्तार्थेऽन्वयः, द्वितीयतत्पदार्थपरवाक्यस्थले च तदेकदेशसामानाधिकरण्ये हेतुपदार्थान्वितप्रथमार्थनिरूपितत्वस्यान्वयः, षष्ठीप्रकृतेस्तद्धर्मपरतया षष्ठ्यन्तार्थस्य साध्यतावच्छेदकनिष्ठत्वस्य तादृशान्वयबललभ्यहेतुसमानाधिकरणाभावप्रतियोगितावच्छेदकत्वे, तस्य तद्धितार्थसम्बन्धिनः एकदेशे घटकत्वरूपसम्बन्धे, सम्बन्धिनश्चाभेदेन प्रथमान्तार्थेऽन्वयः। एवं चोक्तवाक्या.
* चन्द्रकला
प्रकृत्यर्थस्य = वहेः । तस्य = मत्वर्थीयार्थस्य स्वरूपसम्बन्धवतः । प्रथमान्तार्थे = धूमादौ अन्वय इति । तथाच धूमो वह्वेर्व्यभिचारीत्याकारकवाक्यात् स्वनिष्टप्रकृत्यर्थताबच्छेदकवह्नित्वावच्छिन्ननिरूपितत्वसम्बन्धेन वह्निविशिष्टानुयोगितावदभावाधिकरणनिरूपितवृत्तित्वस्वरूपसम्बन्धवदाभिन्नो धूम. इत्यन्वयबोध इति भावः । द्वितीयेति । साध्यतावच्छेदके समानाधिकरणाभावप्रतियोगितावच्छेदकत्वरूपव्यभिचारपराभिधेयत्वं प्रमेयत्वस्य व्यभिचारीतिवाक्यस्थले इत्यर्थः । तदेकदेशे = तादृशव्यभिचारपदार्थैकदेशे । सामानाधिकरण्ये = अधिकरणवृत्तित्वे । हेविति । अभिधेयत्वार्थकम् । अभिधेयत्वस्य प्रथमार्थनिरूपितत्वे स्वनिष्टनिरूपकताकनिष्ठत्वसम्बन्धेनान्वयो बोध्यः । षष्ठीप्रकृतेः = प्रमेयस्वस्य । धर्मपरतया = प्रमेयत्वत्वबोधेच्छयोच्चरिततया । षष्ठ्यन्तार्थस्येत्यादि । निष्टत्वार्थकषष्ठीप्रकृत्यर्थप्रमेयत्वस्वरूपसाध्यतावच्छेदकनिष्टत्वस्येर्थः । तादृशेति । अभिधेयत्वपदार्थान्वितप्रथमार्थनिरूपितत्वस्य सामानाधिकरण्ये योऽन्वयस्तल्लभ्याभिधेयत्वसमानाधिकरणाभावप्रतियोगितावच्छेदकत्वे इत्यर्थः। अन्वय इति परेण सम्बन्धः । तस्य = तादृशप्रतियोगितावच्छेदकत्वस्य । तद्धितेति । व्यभिचारपदोत्तरमत्वीयप्रत्ययार्थों यो घटकल्वरूपसम्बन्धवान् तस्येत्यर्थः । सम्बन्धिनः- घटकरवसम्बन्धवतः। प्रथमान्तार्थ = अभिधेयत्वरूपप्रथमान्तपदार्थे । अन्वय इति । तथाच अभिधेयत्वं प्रमेयत्वस्य व्यभिचारीतिवाक्यात् प्रमेयत्वत्वनिष्ठं यत् अभिधेयत्वविशिष्टनिरूपितत्वविशिष्टसामानाधिकरण्यवदभाव. प्रतियोगितावच्छेदकत्वम् तद्घटकतारमकसम्बन्धवद भिन्नमभिधेयत्वमित्याकारकः शाब्दबोधः पर्यवसित इति भावः । एवञ्चति । निरुक्तरीत्यान्वयस्य पर्यवसितत्वे चेत्यर्थः । उक्तवाक्यात् = अभिधेयत्वं प्रमेयत्वस्य व्यभिचारीतिवाक्यात् ।
"Aho Shrutgyanam"