________________
चन्द्रकला कलाविलासाख्यटीकाद्वयालंकृतम्
६३
* गादावरी
निवेशनीयत्वात् । न च हेतुः साध्यस्य व्यभिचारीत्यतः साध्यतावच्छेदके हेतुसमानाधिकरणाभावप्रतियोगितावच्छेदकत्वस्य दुर्लभतया तदवगाहिज्ञानस्य अभिधेयत्वं मेयत्वस्थ व्यभिचारीत्याकारकता नोपपद्यते इति वाच्यम्, यतोऽभाववद्वृत्तित्वं समानाधिकरणाभावप्रतियोगितावच्छेदकत्वं चेति द्वयमेव हेतुः साध्यस्य व्यभिचारीत्यत्र व्यभिचारपदार्थः । तत्र प्रथमव्यभिचारपदार्थैकदेशेऽभावेऽनुयोगिता रूपषष्ठ्यर्थस्यै, तत्र प्रकृत्यर्थ
ॐ चन्द्रकला
प्रतियन्धकतया
निवेशनीयत्वादिति । तथाच हेतुः साध्याभाववदवृत्तिरित्या कारकच्या सिग्रहम् प्रति हेतुः साध्याभावचद् वृत्तिरित्याकारक व्यभिचारज्ञान स्वेच साध्यतावच्छेदकं हेतुमन्निष्टाभावप्रतियोगितावच्छेदकमित्य कारक व्यभिचारज्ञानस्य तादृशव्याप्तिग्रहाऽप्रतिबन्धकत्वादुक्तव्य भिचारसंग्रहार्थ साध्याभाववदवृत्तित्वप्रकारतानिरूपितहेतुविशेष्यत्वावच्छिन्नप्रकारता स्वे सति हेतुव्यापकसाध्यसामानाधिकरण्यप्रकारतानिरूपित हे तुविशेष्यत्वावच्छिन्न प्रकारताकपक्ष विशेष्यक साध्यप्रकारकानुमितित्वव्यापक प्रतिबध्यताघटितस्यैव हेत्वाभास सामान्यलक्षणताया आवकत्वादिति भावः ।
ननु द्विविधव्यभिचारसंग्रहाय द्विविधव्याप्तिविषयकसमूहालम्बनानुमितेर्लक्षणघटकत्वेऽपि अभिधेयत्वं मेयत्वस्य व्यभिचारीत्या कारकशब्देन प्रमेयवत्वरूपसाध्यतावच्छेद के अभिधेयत्वरूप हेतुमन्निष्टाभावप्रतियोगितावच्छेदकत्वस्याप्रतिपादनात् कथं द्वितीयस्थले साध्यतावच्छेद के हेतुमन्निष्ठाभावप्रतियोगितावच्छेदकत्वभ्रमः सम्भवतीत्याशंकते नचेति । वाच्यमितिपरेणान्वयः । इत्यत्र = इत्याकारकज्ञाने । साध्यतावच्छेद के= प्रमेयत्वस्वादौ । हेत्विति । अभिधेयत्वाद्यर्थकम् । दुर्लभतया = अविषयीभूततया । तदवगाहीति । साध्यतावच्छेद के हेतुसमानाधिकरणाभावप्रतियोगितावच्छेदकत्वावगाहिज्ञानस्येत्यर्थः । नोपपद्यत इति । अभिधेयत्वं प्रमेयत्वस्य व्यभिचारीतिवाक्येन तादृशस्याप्रतिपादनादित्याशयः । उत्तरयति यत इत्यादि । व्यभिचारशब्दार्थस्य द्वैविध्यं व्युत्पादयति अभावेति । अभावाधिकरणनिरूपितवृत्तित्वमित्यर्थः । समानेति । अधिकरणवृष्तितावदभावप्रतियोगितावच्छेदकत्वमित्यर्थः । - तत्र = तयोरर्थयोर्मध्ये । आदिमेति । प्रथमव्यभिचारतात्पर्य कधूमो वह्नेव्यभिचारीत्यादिशाब्दस्थले इत्यर्थः । व्यभिचारेति । अभाववद् तित्व रूपव्यभिचारेत्यर्थकम् । अनुयोगितेति । अभावत्वात्मकानुयोगितारूपवह्निपदोत्तरषष्ठ्यर्थस्येत्यर्थः । अन्वय इति परेण सम्बन्धः । तत्र = षष्ट्यथ पर्थानुयोगितायाम् । प्रकृत्यर्थतेति । स्वनिष्ठेस्यादिः ।
"Aho Shrutgyanam"