________________
६२
अनुमानगादाधर्यां सामान्यनिरुक्तिप्रकरणम्
* गादावरी
अन्ये तु प्रथमे साध्याभाववदवृत्तित्वज्ञानविरोधी हेतौ साध्याभाववतित्वरूपव्यभिचारस्य भ्रमः, द्वितीये च तदप्रसिद्धद्या व्यापकसामानाधिकरण्यज्ञानविरोधी साध्यतावच्छेदके हेतुसमानाधिकरणाभावप्रतियोगितावच्छेदकत्वस्य 'भ्रमोऽभिहितः, असमान प्रकारकज्ञानस्याऽविरोधितया द्विविधव्यभिचारसंग्रहाय द्विविधव्याप्तिविषयकसमूहालम्बनस्यैव लक्षणे
"
ॐ चन्द्रकला
प्रकारान्तरेण भ्रममुपपादयतां मतमाह अन्ये त्विति । प्रथमे = धूमो वह्निव्यभिचारीत्यादिस्थले । साध्येति : वह्निरूपेत्यादिः । तौ = धूमादौ । साध्येति । वह्वयभाववदवृत्तित्वस्य मीनादौ प्रसिद्धस्येत्यर्थः । भ्रमः = तादृशवृत्तित्वशून्ये वृत्तित्वप्रकारकज्ञानम् । द्वितीये च = अभिधेयत्वं मेयत्वस्य व्यभिचारीत्यादिस्थले च । तदप्रसिद्ध्या - साध्याभाववदूवृत्तित्वस्याप्रसिद्धया । साध्योभूतप्रमेयत्वाभावस्याप्रसिद्धयेव तादृशवृत्तित्वस्याप्यप्रसिद्धिरिति हृदयम् । व्यापकेति । प्रतियोगिव्यधिकरण हेत्वधिकरणवृत्त्यभावप्रतियोगितानवच्छेदकसाध्यतावच्छेदकावच्छिन्न सामानाधिकरण्य ज्ञानप्रतिबन्धक इत्यर्थः । साध्यतावच्छेदके प्रमेयवत्वादौ । हेत्विति । अभिधेयत्वादिमन्निष्टतादेशाभावप्रतियोगितावच्छेदकत्वस्येत्यर्थः ।
=
ननु लक्षणघटकीभूतानुमितिपदस्य साध्याभाववदवृत्तिहेतुमान् पक्षःसाध्यवानित्याकारकानुमितिपरत्वेऽपि कथं न द्विविधव्यभिचारसंग्रह इत्यत आह असमानेति स्वीय विशेष्यतावच्छेदकधर्मावच्छिन्न विशेष्यतानिरूपित्तस्वप्रकारतावच्छेदकधर्मावच्छिन्नाभावप्रकारकनिश्चयस्यैवेत्यर्थः । स्वं प्रतिबध्यत्वेनाभिमतं ज्ञानम् । अविरोधितया = अप्रतिबन्धकतया । द्विविधेति । हेतौ साध्याभावववृत्तित्त्वरूपव्यभिचारस्य साध्यतावच्छेदके हेतुसमानाधिकरणाभावप्रतियोगिताच्छेदकत्वरूपव्यभिचारस्य च संग्रहायेत्यर्थः । द्विविधव्याप्तीति । साध्याभावददवृत्तित्वहेतुव्यापक साध्य सामानाधिकरण्यविषयकसमूहालम्बनानुमितेरित्यर्थः । लक्षणे = हेत्वाभास लक्षणे । समूहालम्बनान्वयि घटकत्वं सप्तम्यर्थः ।
* कलाविलासः
महानसी वह्निमान् क्वचित् वह्निमद्दानसीयवानित्यनुमितिभेदो न स्यादिति चेन्न, परामर्शोश यत्र अभावविशेषणतापन्नवह्नयंशे वह्नित्वं धर्मितावच्छेदकीकृत्य महानसीयत्वं भासते तत्र धर्मिपारतन्त्र्येण सामानाधिकरण्यसम्बन्धेन महानसीयत्वस्य वह्नित्वेऽपि भानात् महानसीयत्वावच्छिन्नव ह्नित्वनिष्ठावच्छेदकताकप्रतियोगिताकत्वसम्बन्धावच्छिन्न वह्नित्वनिष्ठप्रकारतानिरूपिता भावत्वावच्छिन्न विशेष्यताघटि
"Aho Shrutgyanam"