________________
चन्द्रकला-कलाविलासाख्यटीकाद्वयालंकृतम्
* गादाधरी* ताकत्वसम्बन्धेन साध्यतावच्छेदकवत्त्वमेवाऽभावस्य साध्याभाववदवृत्तित्वरूपव्याहिघटकं लाघावात् । एवं च तादृशेन सम्बन्धेनाऽभावांशे साध्यतावच्छेदकप्रकारकव्यभिचारज्ञानस्य व्याप्तिग्रहविरोधितया घटत्वस्वादेः प्रसिद्धेन तादृशसम्बन्धेन प्रमेयत्वत्वादेरभावांशे भ्रमात्मक एव तथाविधग्रहो विवक्षित इति न किश्चिदनुपपन्नम् ।
ॐ चन्द्रकला ® नानपपत्तिरित्याह एवञ्चेति। निरुक्तव्याप्तिज्ञानस्यानुमितिहेतुत्वे चेत्यर्थः । तादृशेति । स्वावच्छिन्नसाध्यतावच्छेदकसम्बन्घावच्छिन्नप्रतियोगिताकत्वसम्बन्धेनेत्यर्थः । अभावांशे = अभावरूपविशेष्ये । साध्यतेति । साध्यतावच्छेदकविशिष्टाभावववृत्तिहेतुरियाकारकसाध्यतावच्छेदकनिष्टतादृशसम्बन्धावच्छिन्नप्रकारतानिरूपिताभावनिष्ठविशेष्यताकव्यभिचारज्ञानस्येत्यर्थः । व्याप्तीति । तादृशसम्बन्धेन साध्यतावच्छेदकविशिष्टाभाववदवृत्तित्वरूपव्याप्तिग्रहप्रतिबन्धकतयेत्यर्थः । घटत्वत्वादेरिति । आदिना पटत्वत्वादिपरिग्रहः । प्रसिद्धेनेति । स्वरूपेण घटत्वं नास्तीत्यभावादावित्यादिः। तादृशेति । स्वावच्छिन्न स्वरूप. सम्बन्धावच्छिन्नप्रतियोगिताकत्वसम्बन्धेनेत्यर्थः । प्रमेयत्वत्वादेरिति । साध्यतावच्छेदकोभूतस्येत्यादिः । अभावांशे = व्यभिचारघटकाभावरूपविशेष्ये । भ्रमात्मकः = निरुक्तसम्बन्धेन प्रमेयस्वत्वशून्ये अभावे प्रमेयत्वप्रकारकज्ञानात्मकः। तथाविधग्रहः = प्रमेयत्वत्वविशिष्टाभावव वृत्त्यभिधेयत्वमित्याकारकव्यभिचारग्रहः।
विवक्षित इति । तथाच स्वावच्छिन्नसाध्यतावच्छेदकस्वरूपसम्बन्धावच्छिन्नप्रतियोगिताकत्वसम्बन्धस्य स्वरूपेण · घटत्वं नास्तीत्याकारकाभावादौ प्रसिद्धस्य प्रमेयत्वत्वव्यधिकरणसम्बन्धतया तेन सम्बन्धेन घटत्वाभावादी प्रमेयत्वस्वप्रकारकभ्रमात्मक एव प्रमेयत्वत्वविशिष्टाभावववृत्त्यभिधेयत्वमित्याकारकव्यभिचारग्रहः सम्भवत्येवेति भावः । न किञ्चिदिति । न यथार्थपदानुपादाने भ्रमस्याप्रसिद्धया तद्विषये प्रमेयत्वादावतिव्याप्तिदानमनुपपन्न मित्यर्थः ।
2 कलाविलासः 23 न्धावछिन्नतया तत्सम्बन्धनिष्ठसांसर्गिकविषयतायाश्चानुमितिजनकतावच्छेदककोटौ प्रवेशे महागौरवात् ।
साध्यतावच्छेदकवत्त्वमेव व्याप्तिघटकमिति। अथैवं महानसीयवह्निमानित्यनुमितौ तद्वयाप्यवत्ताज्ञानस्य केन रूपेण कारणता? यदि वह्नित्वमहानसीयत्वधर्मद्वयनिष्ठप्रकारतानिरूपिताभावत्वावच्छिन्नविशेष्यताघटितधर्मेण, तदा क्वचित्
"Aho Shrutgyanam"