________________
अनुमानगादाधयाँ सामान्यनिरुक्तिप्रकरणम्
* गादाधरी कज्ञानस्यैवानुमितिहेतुतया तत्प्रकारकव्यभिचारज्ञानस्याऽकिञ्चित्करत्वात् । अत्राहुः- स्वावच्छिन्नसाध्यतावच्छेदकसम्बन्धावच्छिन्नप्रतियोगिता
* चन्द्रकला 28 रूपव्याप्तिज्ञानस्यैवेत्यर्थः । तत्प्रकारकेति । निरूपकत्वसम्बन्धेन साध्यतावच्छेदकसम्वन्धावच्छिन्नसाध्यतावच्छेदकधर्मावच्छिन्नत्वविशिष्टप्रतियोगिताविशिष्टाभावववृत्तित्त्वरूपव्यभिचारज्ञानस्येत्यर्थः । अकिश्चित्करत्वादिति । तादृशव्याप्तिज्ञानाप्रतिबन्धकस्वादिति हृदयम् । प्रतियोगितासंसर्गकज्ञानस्यानुमितिहेतुरवे प्रतियोगितानिष्ठस्य साध्यतावच्छेदकसम्बन्धावच्छिन्नत्वादेः संसर्गविषयतायाः कारणतावच्छेदककुक्षावप्रविष्टतया लाघवात् साध्यतावच्छेदकसम्बन्धावच्छिन्नसाध्यतावच्छेदकधर्मावच्छिन्नप्रतियोगिताकत्वसम्बन्धेन साध्यविशिष्टाभाववदवृत्तित्वरूपव्याप्तिबुद्धौ तादृशसम्बन्धेन साध्यविशिष्टाभाववद्वृत्तित्वरूपव्यभिचारज्ञानस्यैव प्रतिबन्धकतया निरूपकत्वसम्बन्धेन तादृशप्रतियोगिताविशिष्टाभावववृत्त्यभिधेयत्वमित्याकारकव्यभिचारभ्रमस्य प्रतियोगितासंसर्गकतादृशव्याप्तिज्ञानाप्रतिबन्धकत्वात् यथार्थपदानुपादाने निरुक्तभ्रमविषयेऽतिव्याप्तिदानमसंगतं स्यादिति तु परमार्थः।
समाधानमाह अत्राहुरिति । केचिदितिशेषः। स्वावच्छिन्नेति । स्वं साध्यतावच्छेदकम् , तथाच साध्यतावच्छेदकावच्छिन्नसाध्यतावच्छेदकसम्बन्धावच्छिन्नप्रतियोगिताकत्वसम्बन्धेन साध्यतावच्छेदकविशिष्टाभाववदवृत्तित्वप्रकारकहेतुविशेष्यकव्याप्तिज्ञानमेवानुमितिकारणं वक्तव्यम्, सम्बन्धघटकपदार्थविषयतायाः संसर्गानवच्छिन्नवेन कारणतावच्छेदकविषयताया लघुत्वात् । एवञ्च तादृशव्याप्तिविशिष्टहेतुमान् पक्षः साध्यवानित्याकारकानुमितिप्रतिबन्धकव्यभिचारभ्रमस्य
* कलाविलासः तु साध्यतावच्छेदकस्य द्विधा प्रवेशेन गौरवम् । नच साध्यतावच्छेदकसम्बन्धावच्छिन्नसाध्यतावच्छेदकावच्छिन्नप्रतियोगिताकत्वसम्बन्धावच्छिन्नप्रकारतात्वेनैव प्रकारतायाः कारणतावच्छेदककोटी प्रवेशो न तु साध्यतावच्छेदकावच्छिन्नत्वेनेति वाच्यम् , वह्नित्वावच्छिन्नसंबोगसम्बन्धावच्छिन्नप्रतियोगिताकत्वसम्बन्धेन घटाभाववदवृत्तिधूमवान् पर्वत इति परामर्शात्पर्वते वह्नयनुमित्यापत्तेरिति चेन्न, प्रतियोगिताप्रकारकज्ञानस्यानुमितिकारणत्वे प्रतियोगित्वनिष्ठप्रकारताया अपि किञ्चित्सम्बन्धावच्छिन्नतया तत्सम्बन्धनिष्ठसांसर्गिकविषयतायाः प्रतियोगिताकुक्षिप्रविष्टसाध्यतावच्छेदकधर्मावच्छिन्नत्वादिनिष्टप्रकारताया अपि किश्चित्सम्ब
"Aho Shrutgyanam"