________________
चन्द्रकला कलाविलासाख्यटीकाद्वयालंकृतम्
गादाधरी ? न च तेन रूपेण प्रतियोगिताप्रकारक एवात्र भ्रमो विवक्षितः नतु तदवच्छिन्नप्रतियोगितासंसर्गक इति वाच्यम् , लाघवात् प्रतियोगितासंसर्ग
2 चन्द्रकला . पुनः शंकते नचेति । वाग्यमिति परेणान्वयः । तेन रूपेण = साध्यतावच्छेदकसम्बन्धावच्छिन्नस्वसाध्यतावच्छेदकधर्मावच्छिन्नत्वेन रूपेण । प्रतियोगिताप्रकारक इति। निरूपकत्वसम्बन्धेनेत्यादिः। अत्र अभिधेयत्वं मेयत्वस्य व्यभिचारीत्यत्र । विवक्षित इति । तथा च निरुक्तप्रतियोगिताया अभावांशे निरूपकत्वसम्बन्धेन प्रकारतया सद्घटकीभूतपदार्थेऽपि प्रकारताया अवश्यं स्वीकरणीयतया सम्बन्धान्तरावच्छिन्नप्रमेयत्वत्वावच्छिन्नप्रतियोगितायां साध्यतावच्छेदकस्वरूपसम्बन्धावच्छिन्नत्वस्य अमोऽवश्यमुपपद्यत इत्याशयः ।
प्रतियोगिप्रकारक एवेत्यत्रैवकारार्थ स्पष्टयति नत्विति । नतु साध्यतावच्छेदकसम्बन्धावच्छिन्नसाध्यतावच्छेदकावच्छिन्न प्रतियोगिताकत्वसंसर्गक इत्यर्थः । उत्तरयति लाघवादिति । साध्यतावच्छेदकसम्बन्धावच्छिन्नस्वादेः संसर्गान्तरानभ्युपगमेनेत्यादिः । प्रतियोगितेति । साध्यतावच्छेदकसम्बन्धावच्छिन्नसाध्यताबच्छेदकधर्मावच्छिन्नप्रतियोगिताकत्वसम्बन्धेन साध्यविशिष्टाभाववदवृत्तित्व
कलाविलासः 2 भ्रमत्वं भट्टाचार्येणैव स्वीकृतं व्याप्तिपञ्चके च जगदीशेन संसर्गप्रकारसाधारणविशेष्यविशेषणभावस्य भ्रमत्वघटकत्वादित्यक्तमुभयत्र का युक्तिरिति चेन्न, संसर्गता. वच्छेदकांशे भ्रमत्वमंगीकुर्वतामयमाशयः, संसर्गाशे भ्रमत्वानभ्युपगमे प्रमात्वस्यापि तत्राऽस्वीकारापत्तेः, निर्विकल्पकान्यज्ञानस्य भ्रमत्वप्रमात्वान्यतरनियमेन सेसर्गाशे तदस्वीकारेऽनुभवविरोधात्, अत: संसर्गोशे प्रकार विशेष्यभावविरहेऽपि विशेष्यविशेषणभावोऽस्ति, परन्तु संसर्गतावच्छेदकीयविषयताया विशेषणशानजन्यतानवच्छेदकत्वेन तत्र प्रकारत्वं नाभ्युपगम्यते, एवञ्च तदभाववनिष्ठविशेष्यतानिरूपिततन्निष्ठविशेषणताकज्ञानत्वमेव भ्रमत्वं पर्यवसितम् । संसर्गाशे भ्रमत्वमनभ्युपगच्छतां तावदयमाशयः, संसर्गाशे विशेष्यविशेषणभावोऽपि नास्त्येव, संसर्गतावच्छेदकत्वेनैव संसर्गगतधर्माणां भानं नतु विशेषणत्वेन, विशिष्टबुद्धावपि संसर्गाशे प्रमात्वं किमपि नास्तीत्यभिप्रेत्य भट्टाचार्येणात्र भ्रमत्वं खण्डितम् , परन्तु प्रकारांशे प्रमानिरूपितसांसर्गिकविषयत्वमेव संसर्गेऽभ्युपगम्यत इति ध्येयम् ।) ___ लाघवात्प्रतियोगितासंसर्गकेति । ननु प्रतियोगिताप्रकारकज्ञानस्यैवानुमितिहेतुत्वे लाघवम्, साध्यतावच्छेदकसम्बन्धावच्छिन्नसाध्यतावच्छेदकावच्छिन्नप्रतियोगिताकत्वसम्बन्धावच्छिन्नसाध्यतावच्छेदकावच्छिन्नप्रकारताघटितधर्मेण तद्धेतुत्वे
"Aho Shrutgyanam"