________________
अनुमानगादाधर्या सामान्यनिरुक्तिप्रकरणम्
गादाधरी * न्धावच्छिन्नतादृशप्रतियोगिताकत्वाऽप्रसिद्धथा तादृशसम्बन्धेन भ्रमत्वानुपपत्तिः। प्रतियोगितांशे सम्बन्धविशेषावच्छिन्नत्वस्य भ्रम इत्यपि न युक्तम् । तस्य सम्बन्धघटकतया तत्प्रकारकत्वघटिततद्धमत्वानुपपत्तेः ।
ॐ चन्द्रकला 2 भावस्यालीकतये तिभावः। तादृशेति । साध्यतावच्छेदकस्वरूपसम्बन्धावच्छिन्नप्रमेयत्वत्वावच्छिन्नप्रतियोगिताकत्वसम्बन्धेन घटाभावादौ प्रमेयत्वभ्रमा नुपपत्तिरित्यर्थः। सदुपरागेणासतः संसर्गमर्यादया भानस्य उपाध्यायादीनामननुमतत्वादिति भावः । नचैवं भ्रमानुपपत्त्या यथाभिधेयत्वं मेयत्वस्थ व्यभिचारीत्याकारकव्यभिचारज्ञानाऽप्रसिद्धिस्तथा सत्प्रतिबध्यप्रमेयत्वव्याप्तिज्ञानस्याप्यप्रसिद्धिरिति तदकथनेन न्यूनता स्यादिति वाच्यम् , भ्रममात्रानुपपत्तिकथनेन निरुक्तव्यभिचारज्ञानाऽप्रसिद्धेरिव तादृशव्याप्तिज्ञानाऽप्रसिद्धरपि भट्टाचार्यसम्मतत्वादिति ध्येयम् । ___ ननु भेदादौ प्रसिद्धस्य प्रयेयत्वत्वावच्छिन्नप्रतियोगिताकत्वस्त्र घटकीभूतायां प्रतियोगितायामेव साध्यतावच्छेदकीभूतस्वरूपसम्बन्धावच्छिन्नत्वस्य भ्रमः इति न भ्रमानुपपत्तिरित्याशंकते प्रतियोगित्वांश इति । साध्यतावच्छेदकसम्बन्धावच्छिन्नसाध्यतावच्छेदकावच्छिन्नप्रतियोगिताकत्वरूपसम्बन्धघटकीभूते इत्यादिः। सम्बन्धेति । स्वरूपसम्बन्धावच्छिन्नवस्येत्यर्थः। भ्रमः = स्वरूपसम्बन्धावच्छिन्नत्वाभाववत्ताशप्रतियोगित्वनिष्ठविशेष्यतानिरूपितस्वरूपसम्बधावच्छिन्नत्वनिष्ठप्रकारताकज्ञानम् । समाधत्ते इत्यपि न युक्तमिति । निरुक्तरीत्या भ्रमोपपादनमपि न युक्तमित्यर्थः। कथमित्याकाक्षायामाह तस्येति । निरुक्तसम्बन्धविशेषावच्छिन्नत्वस्येत्यर्थः। सम्बन्धेति । तादृशप्रतियोगिताकत्वरूपसम्बन्धघटकतयेत्यर्थः । तत्प्रकारकत्वेति । स्वरूपसम्बन्धावच्छिन्नत्वप्रकारकत्वघटितस्य भ्रमस्यानुपपत्तेरित्यर्थः । सम्बन्धघटकपदार्थे विशेष्यविशेषणभावसत्त्वेऽपि तत्र प्रकारविशेष्यभावानभ्युपगमात् निरुक्तसम्बन्धघटकस्वरूपसम्बन्धावच्छिन्नस्वाभाववन्निष्ठविशेष्यतानिरूपितस्वरूपसम्बन्धावच्छिन्नत्वनिष्ठप्रकारताकत्वघटितभ्रमो न सम्भवतीति हृदयम् ।
* कलाविलासः प्रकारतावच्छेदकत्वात्, अतः प्रतियोगितायामेव साध्यतावच्छेदकमात्रावच्छिन्नत्वं देयमुपलक्षणीभूतधर्मस्य प्रतियोगितानवच्छेदकत्वेन तादृशानुपपत्तिवारणसम्भवा. दिति वदन्ति ।
तत्प्रकारकत्वघटिततभ्रमत्वेति । अथ व्युत्पत्तिवादे संसर्गतावच्छेदकांशे
"Aho Shrutgyanam"