________________
चन्द्रकला-कलाविलासाख्यटोकायालंकृतम्
20
- गादाधरी * इदं त्ववधेयम् । अभिधेयत्त्वं मेयत्वस्य व्यभिचारीत्यत्र स्वरूपसम्बन्धावच्छिन्नप्रमेयत्वत्वावच्छिन्नप्रतियोगिताकत्वसम्बन्धेन प्रमेयत्वभ्रमो वाच्यः, प्रतियोगितांशे साध्यतावच्छेदकसम्बन्धावच्छिन्नत्वसाध्यतावच्छेदकावच्छिन्नत्वयोः साध्याभावक्वृत्तित्वरूपव्याप्तिघटकतया तदंशे तदुभयावगाहिव्यभिचारज्ञानस्यैव व्याप्तिज्ञानविरोधित्वात् , एवञ्च भेदादौ प्रमेयत्वत्वावच्छिन्नप्रतियोगिताकत्वस्य प्रसिद्धावपि स्वरूपसम्ब
चन्द्रकला 2 शंकते इदन्त्ववधेयमिति । अन्त्यभ्रम इत्यादिः। भ्रम इति । अभावांशे इत्यादिः।
ननु स्वरूपसम्बन्धानपच्छिन्नकेवलप्रमेयत्वत्वावच्छिन्नप्रतियोगिताकत्वसम्बन्धेनैव प्रमेयत्वस्य भ्रमो वक्तव्यस्तथा च नानुपपत्तिः, भेदनिष्ठस्यैव केवलप्रमेयत्वत्वावच्छिन्न प्रतियोगिताकत्वस्य प्रसिद्धत्वादित्यत आह प्रतियोगितांश इति । तदेशे प्रतियोगित्वांशे। तदुभयेति | साध्यतावच्छेदकसम्बन्धावच्छिन्नत्वसाध्यतावच्छेदकधर्मावच्छिन्नस्वरूपोभयावगाहिव्यभिचारज्ञानस्येत्यर्थः। व्याप्ति. ज्ञानविरोधित्वादिति । तथाच साध्यतावच्छेदकसम्बन्धावच्छिन्नसाध्यतावच्छेदकधर्मावच्छिन्नप्रतियोगिताकत्वसम्बन्धेन साध्यविशिष्टाभाववदवृत्तित्वरूपव्याप्तिबुद्धौ ताशसम्बन्धेन साध्यविशिष्टाभावववृत्तिस्वरूपव्यभिचारज्ञानस्यैव प्रतिबन्धकसया केवलप्रमेयत्वत्वावच्छिन्नप्रतियोगिताकत्वसम्बन्धेन प्रमेयत्वविशिष्टाभावयत्तित्वरूपव्यभिचारग्रहस्य अनुमितिजनकज्ञानाऽविरोधित्वेन प्रमेयत्वाभिधेयस्वादावतिव्याप्तिदानमनुचितं स्यादिति भावः ।
भ्रमानुपपत्ति प्रदर्शयति एवळचेति । समानाकारकज्ञानस्यैव प्रतिबन्धकरवे चेत्यर्थः । भेदादौ = अन्योन्याभावादौ । आदिना व्यधिकरणसमवायादिना प्रमेयस्वाभावपरिग्रहः। प्रसिद्धावपीति । प्रमेयस्वं नेत्याकारकान्योन्याभावस्य सर्ववादिसिद्धतया तस्यैव प्रमेयस्वत्वावच्छिन्नप्रतियोगिताकत्वादित्याशयः । खरूपेति । साध्यतावच्छेदकीभूतेत्यादिः । स्वरूपेण प्रमेयस्वं नास्तीस्याकारका
* कलाविलासः प्रमेयत्वभ्रमो वाच्य इति । ननु साध्यतावच्छेदकसम्बन्धावच्छिन्नप्रतियोगिताकत्वसम्बन्धावच्छिन्नसाध्यतावच्छेदकमात्रावच्छिन्नप्नकारतानिरूपिताभाव - विषयतानिरूपिताधिकरणविषयतानिरूपितवृत्तित्वविषयतानिरूपिताभावविषयतानिरूपित हेतुविषयतानिरूपितपक्षविषयताशालिनिश्चयत्वेनानुमितिहेतुत्वोक्तौ भ्रमस्य नानुपपत्तिः, स्वरूपसम्बन्धावच्छिन्नप्रतियोगिताकत्वसम्बन्धेन प्रमेयत्वस्याभावाशे भ्रमत्वसम्भवादिति चेन्न, एवं सति गुणकर्मान्यत्वोपलक्षितसत्ताभावववृत्तित्वशानात् शुद्धसत्तात्वावच्छिन्नविधेयताकानुमित्यनुपपत्तेः, उपलक्षणीभूतधर्मस्यापि
"Aho Shrutgyanam'