________________
५६ अनुमानगादाधर्यां सामान्यनिरुक्तिप्रकरणम्
क गादाधरी प्रथमभ्रमोऽनुमिती विरोधी अन्त्यौ च तज्जनकज्ञाने तथा, तयोरपि अन्यत्र प्रसिद्धस्य साध्याभावववृत्तित्वस्य धूमाग्रंशे भ्रमत्वम् , अन्त्ये च प्रमेयत्वाभावववृत्तित्वस्याऽप्रसिद्ध्या न तद्धमत्वं, किन्तु अभावांशेऽनुयोगिताविशेषसम्बन्धेन साध्यस्य भ्रमत्वमित्येतादृशविशेषमादृत्य शिष्य. व्युत्पादनायाऽनेकविधभ्रमकथनम् ।
* चन्द्रकला * संगतिः । प्रथमभ्रमः = पर्वतो निर्वह्निरित्याकारः पर्वतविशेष्यकवलयभावप्रकारकभ्रमः। अनुमितौ = पर्वतो वह्निमान् इत्याकारकपर्वतविशेष्यकवह्निप्रकारकानुमितौ, विरोधी - प्रतिबन्धकः। अन्त्यौ = धूमो वह्नयभिचारीत्याकारकः धूमविशेष्यकवह्नयभाववद्वत्तिस्वरूपवह्निव्यभिचारश्रमः अभिधेयत्व. विशेष्यकप्रमेयत्वाभाववत्तित्वप्रकारकाभिधेयत्वं मेयत्वस्य व्यभिचारीत्याकारकश्च । तज्जनकज्ञाने = वह्निव्यायधूमवान् पर्वत इत्याकारकपरामर्शात्मकवायनुमितिजनकज्ञाने मेयत्वव्याप्याभिधेयत्ववानयमिस्याकारकमेयत्वानुमितिजनक. परामर्शे च विरोधिनाविति शेषः । तयोरपि =निरुतान्त्यभ्रमयोर्मध्ये । प्रथमे = धमो वर्षोळभिचारीत्याकारकभ्रमे । अन्यत्र = मीनादौ । साध्येति । वयभाववदत्तित्वस्येत्यर्थः। धूमायंशे = धूमादिरूपविशेष्ये। भ्रमस्वम् = वह्नयभावववृत्तित्वाभाववद्धमनिष्टविशेष्यतानिरूपितवलयभावववृत्तित्वनिष्ठप्रकारताक - ज्ञानत्वम् । अन्त्ये = अभिधेयत्वं मेयस्वस्य व्यभिचारीत्याकारकभ्रमे । प्रमेयत्वेति । अखण्डस्येत्यादिः । न तद्भमत्वम् =न प्रमेयत्वाभाववढत्तित्वाभाववाद्विशेष्यकताशवृत्तित्वप्रकारकज्ञानत्वम् । कथन्तानिवृत्त्यर्थमाह किन्विति । अभावांशे = घटाद्यभावादिरूपविशेष्ये । अनुयोगितेति । स्वनिष्ठप्रतियोगितानिरूपितानुयोगितावत्त्वसम्बन्धेनेत्यर्थः। साध्यस्य-प्रमेयत्वस्य, भ्रमत्वम् = तादृशानुयोगितासम्बन्धेन प्रमेयस्वाभाववद्धटाभावादिनिष्ठविशेष्यतानिरूपितताहशानुयोगितासम्बन्धेन प्रमेयस्वप्रकारकज्ञानत्वम् । इत्येतादृशेति । निरुक्तविभिन्नसम्बन्धमादृत्येत्यर्थः। शिष्येति । शिष्याणां विशेषज्ञानजननायेत्यर्थः। अनेकेति । विभिन्नभ्रमाभिधानं दीधितिकृत इति शेषः।
* कलाविलासः * बुद्ध्यात्मकः परामर्शस्तत्र पञ्चमक्षणेऽनुमितिर्भवति तादृशानुमितेश्चतुर्थक्षण आपत्तिः ।
"Aho Shrutgyanam"