________________
चन्द्रकला-कलाविलासाख्यटीकाद्वयालंकृतम्
* दीधितिः वदन्ति ।
पर्वतो निर्वह्निधूमों वह रभिधेयत्वं मेयत्वस्य व्यभिचारीत्यादिभ्रमादनुमितिप्रतिबन्धादाह यथार्थेति ।
गादाधरी तत्रत्यदोषेष्वव्याप्तेर्वक्ष्यमाणतया ईदृशव्याख्यायामनिर्भरसूचनाय वदन्तीत्युक्तम् ।
पर्वतो वह्निमानित्याटिसद्धेतस्थले बाधादिभ्रमविषयेऽतिव्याप्तिवार. कतया यथार्थपदं सार्थकयति पर्वतो निर्वह्निरिति । अत्र इतिपदस्य त्रितयस्थले सम्बन्धाद् भ्रमत्रयलाभः। प्रत्येकभ्रममादायातिप्रसङ्गसम्भवात् समूहालम्बनभ्रमपर्यन्तानुधावनवैफल्यात् तत्परत्वाऽसङ्गतिरिति ध्येयम् ।
ॐ चन्द्रकला ६ वक्ष्यमाणतयेति । दीधितिकृतेति शेषः। ईदृशेति । लक्षणघटकानुमितिपदस्य अनमितिनिष्ठकार्यतानिरूपकसम्बन्धित्वेनानुमितितत्कारणपरत्वव्याख्यायां साध्यव्याप्य हेतुमान् पक्षः साध्यवानित्याकारकानुमितिपरस्वव्याख्यायाञ्चेत्यर्थ इति दिक् । बाधादीति। वयभाववान् पर्वत इत्याकारकनिश्चयविषयेषु वलयभावपर्वतादिग्वित्यर्थः । आदिना व्यभिचारादिभ्रमपरिग्रहः। यथार्थपदम् प्रमाज्ञानार्थकम् । सार्थकयतीति । तथा च यथार्थपदानुपादाने पर्वतो वह्निमान् धूमादित्यादौ पर्वतादौ वह्नयभावादौ चातिव्याप्तिः, पर्वतो वह्निमानित्यनुमितौ पर्वतो. वह्नयभाववानित्याकारकभ्रमात्मकनिश्चयाभावस्यापि कारणतया अनुमितिकारणीभूताभावप्रतियोगितादृशभ्रमविषयतायाः पर्वतादौ सत्वात् । एवं वह्नयभावववृत्तिस्वादावस्यतिव्याप्तिः प्रकृतानुमितेर्व्याप्त्यादिविषयकत्वेन व्याप्तिविषयकानुमिनिप्रतिबन्धकवह्नयभावववत्तिधूम इत्याकारकभ्रमविषयताया वहयाद्यभाववद्वात्तिस्वादावनपायात् न केवलं ब्यतिरेकिसाध्यकस्थल एवातिव्याप्तिः केवलान्वयिसाध्यकप्रमेयमभिधेयत्वादिस्यादावपि मेयत्वाभिधेयत्वादावतिव्याप्तिः, घटत्वाद्यभावादौ प्रतियोगितासम्बन्धेन मेयत्वभ्रमात्मकमेयत्वाभाववद्वत्त्यभिधेयत्वमित्याकारकज्ञानस्यापि मेयत्वव्याप्तिविषयकानुमितिप्रतिबन्धकतया तद्विषयत्वस्य मेयस्वादौ सस्वात्, यथार्थपददाने तु न तत्र तत्रातिव्याप्तिः, पर्वतादौ वलयभावादेऊनस्य भ्रमात्मकतया यथार्थवासम्भवादिति भावः । अत्रेतिपदस्य = व्यभिचारीत्यादिग्रन्थघटकीभूतेतिपदस्य । त्रितयस्थले = पर्वतो निर्वतिरित्यादिस्थले । सम्बन्धादिति। तथा च पर्वतो निर्वह्निरितिभ्रमात् धूमो वह्वेर्व्यभिचारीति भ्रमात् अभिधयेत्वं मेयत्वस्य व्यभिचारीति भ्रमादिति योजनेत्याशयः ।
ननु समूहालम्बनैकभ्रममादायैवातिव्याप्तिसम्भवे भ्रमत्रितयानुसरणमनुचितमित्यत आह प्रत्येकेति। तत्परत्वाऽसंगतिः =समूहालम्बनभ्रमपरवा
"Aho Shrutgyanam"