________________
अनुमानगादाधयाँ सामान्यनिरुक्तिप्रकरणम्
* दीधितिः त्युत्पादेन व्यभिचाराद् व्याप्त्यादिज्ञानेनाऽन्यथासिद्धत्वाच्च व्यभिचारादिग्रहाभावस्याऽनुमित्यजनकत्वेऽपि न क्षतिरिति
गादाधरी* त्वावच्छिन्नधर्मिकव्याप्त्यादिज्ञानविशिष्टत्वेऽपि न क्षतिरत आह व्याप्त्यादीति । क्लप्तकारणताकव्याप्त्यादिज्ञानसत्त्वे व्यभिचारज्ञानाद्यभावव्यतिरेकेगाऽनुमितिव्यतिरेकस्याऽसिद्धत्वादिति भावः। व्याप्तिज्ञानादेय॑भिचारज्ञानाभावादिना अन्यथासिद्धत्वशङ्का तु प्रागेव निराकृता । न क्षतिः = न व्यभिचारादावव्याप्तिः। यत्राऽसद्धेतुविशेषे तादृशानुमितेरप्रसिद्धिः
चन्द्रकला * न क्षतिः=न व्यभिचारतादवस्थ्यम् । अयं भावः, अव्यवहितोत्तरत्वसम्बन्धेन तद्धेतुधर्मिकव्याप्तिज्ञानविशिष्टानुमिति प्रति तद्धतुर्मिकव्यभिचारज्ञानाभावस्थ कारणत्वविवक्षणे यादृशस्थले धमव्याप्यवह्निमानयमितिशाब्दबोधाद्यात्मकः परामर्शस्ततो लौकिकसन्निकर्षात् धूमव्यभिचारी वह्निः धूमव्याप्येन्धनवाँश्चायमित्याकारकसमूहालम्बनपद्विधर्मिकधूमन्यभिचारग्रहात्मकेन्धनलिंगकपरामर्शस्ततो धूमानुमितिस्तादृशानुमितेरव्यवहितोत्तरत्वसम्बन्धेत वह्विधर्मिकधूमब्याप्तिज्ञानविशिष्टतया निरुक्तानुमितिं प्रति वद्विधर्मिकव्यभिचारज्ञानाभावस्य जनकतया तस्य चा नुमत्यव्यवहितपूर्वक्षणेऽसत्त्वात्, अतोऽव्यवहितोत्तरत्वसम्बन्धेन तद्धतुधर्मियभिचारज्ञानविशिष्टान्यानुमितित्वावच्छिन्नं प्रत्येव तद्धेतुधर्मिकव्यमिचारशानाभावस्य हेतुस्वं वक्तव्यम् , एवञ्च निरुक्तरीत्या कार्यकारणभावकल्पने नोक्तस्थले व्यभिचारः, निरुक्तानुमितेरव्यवहितोत्तरत्वसम्बन्धेन वह्निधर्मिकधूमव्यभिचारज्ञानविशिष्टतया तदन्यानुमिति प्रत्येव वह्निधर्मिकधूमव्यभिचारज्ञानाभावस्य जनकत्वात् नतु यथोक्तानुमिताविति । क्लप्तेति । अवश्यक्तता प्रकृतानुमितिकारणता यत्र तादृशव्याप्तिज्ञानसत्त्वदशायामित्यर्थः। व्यभिचारेति = व्यभिचारज्ञानसत्त्वेपीत्यर्थः । अनुमितीति = प्रकृतानुमित्यनुत्पादस्य । असिद्धत्वादिति । व्यभिचारज्ञानाभावस्यान्यथासिद्धत्वादनुमितिपदस्य यथाश्रुतार्थपरत्वे भवति व्यभिचारादावव्याप्तिरित्याशयः ।
ननु व्याप्तिज्ञानस्यैव व्यभिचारज्ञानाभावेनान्यथासिद्धत्वमस्वित्यत आह व्याप्तिज्ञानादेरिति । प्रागेवेति । तेनैकहेताविरयादिग्रन्थेनेत्यादिः । नाव्याप्तिरिति । लक्षणघटकीभूतानुमितिपदस्य साध्यव्याप्यहेतुमान् पक्षः साध्यवानित्याकारकानुमितिपरत्वव्याख्याने नेत्यादिः । आहार्य परोक्षज्ञामानभ्युपगमात निर्वतिपर्वतो वह्निमान् धूमादित्यादौ अनुमित्यप्रसिद्या अनुमितिघटितलक्षणं तादृशस्थलीयदोषेऽव्याप्तमित्यतो दीधितिकृता वदन्तीत्युक्तमित्याह यत्रेति । असद्धेतुविशेषे = निर्वह्नपर्वतपक्षकवयादिसाध्यकधूमादिहेतुविशेषे ।
"Aho Shrutgyanam"