________________
५३
चन्द्रकला कला विकासाख्यटीकायालंकृतम्
* गादाधरी
3
ज्ञानाभावस्य हेतुत्वोपगमान्न व्यभिचारः, तद्धर्मावच्छिन्नलिङ्गकत्वं च अव्यवहितोत्तरत्वसम्बन्धेन तद्रूपावच्छिन्नधर्मिक व्याप्त्यादिज्ञानविशिष्टत्वम् तादृशसम्बन्धेन व्यभिचारज्ञानविशिष्टं यत्तदन्यत्वमेव वा जन्यतीवच्छेदकं वाच्यम्, तिन धूमव्याप्यवह्निमानयमित्यादिशाब्दादिपरामर्शोत्ति द्वितीयक्षणे यत्र लौकिकसन्निकर्षजन्यो वह्निर्धूमव्यभिचारी धूमव्याप्येन्धनवानित्याकारकसमूहालम्बनग्रहः तज्जन्यानुमितेरुक्तसम्बन्धेन वह्नि
* चन्द्रकला
तद्रूपेति । तद्वह्नित्वादिधर्मावच्छिन्नविशेष्यकं यद्व्याप्य्यादिज्ञानं अव्यवहित्तोत्तरस्वसम्बन्धेन तद्विशिष्टत्वं तद्वह्नित्वादिविशेष्यकव्यभिचारज्ञानाभावजन्यतावच्छेदकं वाच्यमिति योजना । अत्राऽव्यवहितोत्तरत्वं तादृशव्याप्यादिज्ञानध्वंसाधिकरणक्षणध्वंसानधिकरणत्वे सति वाशव्याप्त्यादिज्ञानध्वंसाधिकरणकालत्वरूपं तृतीयक्षणसाधारणं बोध्यमित्यन्यत्र विस्तरः ।
तादृशसम्बन्धेन = अव्यवहितोत्तरत्वसम्बन्धेन । व्यभिचारज्ञानेति । तद्धर्मावच्छिन्नधर्मिकमित्यादिः । तदन्यत्वम् = तद्भिन्नत्वम् । तद्भिन्नानुमितित्वमितियावत् । जन्यतावच्छेदकमिति । व्यभिचारज्ञानाभावस्येत्यादिः । तेनेति । तादृशसम्बन्धेन व्यभिचारज्ञानविशिष्टं यदित्यादिद्वितीय कल्पानुसरणेनेत्यर्थः । धूमव्याप्यवह्निमानयमिस्याकारकपरामर्शस्य लौकिकसन्निकर्षादिजन्यस्वे ताहरापरामर्शोत्तरं वह्निधर्मिकधूमव्यभिचारग्रहस्य लौकिकसन्निकर्षजन्यस्यापि उत्पादो न सम्भवति लौकिकसन्निकर्ष जन्य तत्प्रकारकप्रत्यक्षे लौकिकसन्निकर्षजन्यतदभाव निश्चयस्य प्रतिबन्धकत्वादतस्तादृशपरामर्शस्य शाब्दबोधाद्यात्मकत्वमाह धूम. व्याप्येति । शाब्दादीत्यत्रादिनाऽनुमित्यादिपरिग्रहः । लौकिकसन्निकर्षजन्य प्रत्यक्षस्य सर्वतो बलवत्त्वेन विपरीतशाब्दनिश्चयाप्रतिबध्यत्वादाह लौकिकेति । धूमव्यभिचारी = धूमाभाववद्वृत्तिः । निरुक्तव्यभिचारज्ञानोत्तरमप्यनुमितिरवश्यं - मुत्पद्यते इत्याह धूमव्याप्य इति । इत्याकारकसमूहालम्बनग्रहः - इत्याकारकव्यभि चार महात्मकपरामर्शः । तत्र = तादृशस्थले । तज्जन्यानुमितेः = निरुक्तेन्धनलिंगकसमूहालम्बनपरामर्शजन्यानुमितेः । उक्तसम्बन्धेन = अव्यवहितोत्तरत्वसम्बन्धेन । * कलाविलासः
तद्धर्मावच्छिन्नलिंग कत्वमित्यादि । अत्राव्यवहितोत्तरत्वं तृतीयक्षणसाधारणं स्वध्वंसाधिकरणकालध्वंसानधिकरणत्वे सति स्वाधिकरणकालध्वं साधिकरणत्वरूपं बोध्यम् तेन यत्रादौ वह्नित्वावच्छिन्ने धूमव्यभिचारग्रहस्ततो लौकिकसन्निक 'वशाद् धूमव्याप्यवह्निमानयमिति परामर्शस्ततः परामर्शतृतीयक्षणेऽनुमितिस्तादृशानुमितेः परामर्शद्वितीयक्षणेनापत्तिः, नवा यत्रापेक्षाबुद्ध्यात्मकव्यभिचारज्ञानं ततोऽपेक्षा
"Aho Shrutgyanam"