________________
५२ अनुमानगादाधर्या सामान्यनिरुक्तिप्रकरणम्
गादाधरी चाराभावाच न तत्र व्यभिचारो दर्शितः।। ननु तद्धर्मावच्छिन्नलिङ्गकानुमितौ तद्धर्मावच्छिन्नधर्मिकव्यभिचार
* चन्द्रकला के चारग्रहाभावस्येत्यादिः। तत्र = एकहेतुकव्यभिचारादिग्रहकाले। दर्शित इति । नेति पूर्वेण सम्बन्धः। तथाचोक्तस्थले व्यभिचारज्ञानोत्पत्तिचतुर्थक्षणरूपपरामर्श तृतीयक्षणे अनुमितिस्वीकारे व्यभिचारग्रहाभावस्य न व्यभिचारः, व्यभिचारज्ञानस्य अनुमितिपूर्वक्षण एव विनष्टत्वात्तदानीञ्च व्यभिचारग्रहाभावरूपकारणस्य विद्यमानस्वादत एकहेतौ व्यभिचारग्रहकालीनान्यहेतुझपरामर्शदशायामनुमित्युत्पादेन व्यभिचारो दीधितिकृता प्रदर्शितः, यत्रादौ तद्वह्निलिंगकपरामर्शस्ततो वह्नि. लिंगकव्यभिचारग्रहस्त न क्षणविलम्बेनानुमित्युत्पादस्य कथमपि वक्तुमशक्य. स्वादिति भावः । ___ व्याप्त्यादिज्ञानेनेत्यादिदीधितिमवतारयति नन्विति । तथाच महानसीयवह्नित्वावच्छिन्नलिंगकानुभितौ महानसीयवह्नित्वावच्छिन्नलिंगकव्यभिचारग्रहा. भावस्यैव जनकतया तस्य च निरुक्तस्थले अनुमितिपूर्व सत्त्वाम्न व्यभिचारः, व्यभिचाराभावे च व्यभिचारग्रहाभावस्यानुमितिकारणीभूतस्य प्रतियोगियथार्थज्ञानविषयताया व्यभिचारादौ सत्त्वात् तत्र लक्षणसमन्वयसम्भवेऽनुमितिपदस्य तादृशानुमितिपरत्वाभिधानमसंगतमिति भावः। ___ ननु वह्नित्वावच्छिन्नधर्मिकव्यभिचारग्रहकालीनतद्वतित्वावच्छिन्नलिङ्गकपरामोत्तरं जायमानानुमितेर्यदि वह्रिस्वावच्छिन्नलिङ्गकानुमितित्वं तदा दीधितिकारप्रदर्शितस्थलेऽपि व्यभिचारोऽस्त्येवंति व्याप्त्यादिज्ञानेनेत्याद्यभिधानमसंगतमित्यत आह तद्धर्मावच्छिन्नेति । व्यभिचारज्ञानाभावकार्यतावच्छेदकमित्यादिः ।
* कलाविलासः न तत्र व्यभिचारोदर्शित इति । ननु योकदैव व्यभिचारज्ञान व्याप्तिज्ञानञ्च वह्नित्वादिसामानाधिकरण्येन जातं तत्र यत्रादौ अपेक्षाबुद्ध्यात्मक व्यभिचारज्ञानं ततो लौकिकसन्निकर्षात् परामर्शस्तत्र क्षणेकविलम्बेनानुमितेः स्वीकारेऽपि व्यभिचारतादवस्थ्यम् , एवं यौकहेतौ व्यभिचारज्ञानोत्पत्तिचतुर्थक्षणे बाधनिश्चयो जातस्तत्र क्षणविलम्बेनानुमितेः स्वीकर्तुमशक्यत्वाद् व्यभिचारतादवस्थ्यमितिचेन्न, सामानाधिकरण्येन व्याप्तिज्ञानस्य कारणत्वं अपेक्षाबुद्धिद्वितीयक्षणे ज्ञानान्तरोत्पाद बाधनिश्चयस्य कार्यकालवृत्तितया प्रतिबन्धकत्वश्चास्वीकृत्यैव न तत्रेत्यादेरभिहितस्वादिति ध्येयम् ।
"Aho Shrutgyanam'