________________
चन्द्रकला-कलाविलासाख्यटीकाद्वयालंकृतम्
* गादाधरी परामर्थात् तत्तद्वह्नित्वादिरूपाऽपरधर्मावच्छिन्ने व्याप्तिपक्षधमत्वावगाहिज्ञानात् । व्यभिचारादिति व्यभिचागदिग्रहाभावस्थाऽनुमित्यजनकत्वेऽपीत्यनेन सम्बन्धः। यत्र यद्पावच्छिन्ने व्यभिचारज्ञानोत्पत्तिद्वितीयक्षणे कथंचित्तद्रपाच्छिन्नलिङ्गकपरामर्शस्तत्र क्षणकविलम्बेनाऽनुमित्युपगमाव्यभि
* चन्द्रकला * वहिमान् धूमादित्यादौ हृदादौ धूमाभावनिश्चयकालेऽपि जलादिलिङ्गकपरामर्शात. हृदादो वयाधनुमित्युत्पादेन व्यभिचारात् स्वरूपासिद्धिनिश्चयाभावस्य तत्साध्यकानुमित्यकारणस्वेऽपि अनुमितिपदस्य यथोक्तानुमितिपरस्वाभिधानान स्वरूपासिद्धावप्यव्याप्तिरिति भावः । तद्वह्नित्वादीति । महानसीयवह्निस्वादिरूपापरधर्माबच्छिन्न इत्यर्थः । व्याप्तीति । धूमव्याप्यमहानसीयवह्नयादिमान् पर्वत इत्याकारकनिश्चयादित्यर्थः। व्यभिचारादित्यत्र पञ्चम्यर्थहेतुताया व्यभिचारग्रहाभावनिष्ठानुमिति जनकत्वाभाव एवान्वय इत्याह व्यभिचारादित्यादीति । अनुमित्यजनकत्वेऽपि = साध्यमात्रविधेयताकानुमितिजनकत्वाभावेऽपि । सम्बन्ध इति । तथाच व्यभिचारग्रहाभावः साध्यमात्रविधेयताकानुमितिजनकत्वाभाववान् स्वाभावप्रयोज्याभावाप्रतियोगितादृशानुमितिकत्वरूपव्यभिचारादिति प्रयोगे तात्पर्यम् , स्वं व्यभिचारग्रहाभावः। ... ननु यादृशस्थले प्रथमे धूमव्यभिचारी वह्निरिति व्यभिचारज्ञानं ततो लौकिकसन्निकर्षवशात् धूमव्याप्यवह्निमानयमिति परामर्शस्ततः पर्वतो धूमवानित्यनुमितिर्भवति तादृशस्थले वह्निरूपैकहेतौ व्यभिचारग्रहपरामर्शयोरुरपादेन व्यभिचारग्रहदशायामेव धूमानुमित्युत्पादादेकहेतावेव व्यभिचारग्रहाभावस्य व्यभिचारसम्भवे हेत्वन्तरस्य परामर्शदशायां व्यभिचाराभिधानमनुचितमित्यत आह यत्रेति । यादृशस्थल इत्यर्थः । तद्रपेति । वह्नित्वरूपधर्मावच्छिन्ने इत्यर्थः। व्यभिचारेति । धमाद्यमावववृत्तित्वज्ञानोत्पत्तिद्वितीयक्षण इत्यर्थः । कथञ्चित लौकिकसन्निकर्षादिना । यद्पेति । वह्नित्वादिधर्मावच्छिन्नलिंगधर्मिकधूमव्याप्तिपक्षधर्मतानिश्चयात्मकपरामर्श इत्यर्थः । तत्र = तादृशस्थले । क्षणविलम्बन = व्यभिचारज्ञानोत्पत्तिचतुर्थक्षणात्मकपरामर्शोत्पत्तितृतीयक्षणेन । अनुमित्युपगमात् = धूमाद्यनुमितिस्वीकारात् । व्यभिचाराभावाच्चेति । व्यभि
* कलाविलासः दोषत्वापत्तिः, तादृशागनाभावादिनिश्चयस्य धूमव्यापकतावच्छेदकगगनत्वावच्छिन्नसमानाधिकरणधूमवान् हृदो गगनवानित्याकारकानुमितिप्रतिबन्धकत्वादिति चेन्न, अलक्ष्यीभूततत्तत्पदार्थनिश्चयनिष्ठतत्तत्प्रतिबन्धकताभेदस्य लक्षणघटकीभूतप्रतिबन्धकतायां विवक्षितत्वादिति संक्षेपः।
"Aho Shrutgyanam"