________________
५०
अनुमानगादाधर्यां सामान्यनिरुक्तिप्रकरणम्
* दीधितिः
तेन एकत्र हेतौ व्यभिचारादिग्रहेऽपि अन्यस्य परामर्शादनुमि* गादावरी
एतादृश व्याख्या (या:) प्रयोजनं स्फुटयति सेनेति । एकत्र = वह्नित्वाधर्मावच्छिन्ने | व्यभिचारादीत्यादिना स्वरूपासिद्धिपरिग्रहः । अन्यस्य
* चन्द्रकला *
एतादृशेति । लक्षणघटकीभूतानुमितिपदस्य अनुमितिनिष्टकार्यतानिरूपकसम्बन्धवत्त्वेनानुमिति तत्कारणपरत्व व्याख्यानस्य साध्यव्याप्यहेतुमान् पक्षः साध्यवानित्याकारकानुमितिपरत्वव्याख्यानस्य च प्रयोजनं पूर्वोक्तव्यभिचारादावव्याप्तिवारण प्रकाशयतीत्यर्थः ।
[ दीधितो तेनैकत्रेत्यादि । अनुमितिपदस्य साध्यव्याप्यहेतुमान् पक्षः सान्यवानित्याकारकानुमितिपरत्वाभिधानेन । एकत्र = हेतुतावच्छेदकवह्नित्वाचेकधर्मविशिष्टवचादि हेतौ । व्यभिचारग्रहेऽपि = धूमाभावाधिकरणनिरूपितवत्तित्वनिश्चयेऽपि । अन्यस्य = महानसीयवह्नित्वादिविशिष्टस्य महानसीयवह्नेः । परामर्शात् = धूमव्याप्यमहानसीयवह्निमान् पर्वत इत्याकारव निश्चयात् । अनुमित्युत्पादेन = धूम विधेयकानुमितिजननेन । व्यभिचारादिति । धूमविधेयकानुमितौ धूमव्यभिचारज्ञानाभावस्य कारणत्वे धूमाभाववद्वृत्तिर्वह्निरित्याकारक- : व्यभिचारज्ञानकाले कारणाभावात् धूमविधेयकानुमित्युत्पादेन व्यभिचारात् यदि व्यभिचारज्ञानाभावो न साध्यविधेयताकानुमितिहेतुः स्यात् तदा लक्षणघटकानु मितिपदस्य साध्यविधेयताकानुमितिपरत्वे धूमवान् वह्नेरित्यादौ व्यभिचारेऽव्याप्तिः स्यात्, तादृशानुमितिकारणीभूताभावपदेन वह्निधर्मिकनिरुक्त व्यभिचारज्ञानाभावस्य तुमशक्यत्वादिति भावः ।
यदि च तलिङ्गकपरामर्शाव्यवहितोत्तरजायमानतत्साध्य विधेयताकानुमितौ तल्लिङ्गधर्मिक व्यभिचारनिश्चयाभावस्य जनकत्वे न व्यभिचारः, महानसीयवह्नयादिधर्मिकधूमव्यभिचारग्रहस्याऽसत्वात्, तदाप्याह व्याप्त्यादिज्ञानेनेति । तथाच धूमसाध्यकानुमितौ हेतुधर्मिकधूम व्याप्तिज्ञानत्वेन जनकत्वस्य सर्वसम्मतस्य कल्पनेनैवोपपत्तौ तत्साध्य कानुमितौ तत्साध्यव्यभिचारग्रहाभावोऽन्यथासिद्धएवेति हृदयम् ।
व्यभिचारादिमहाभावस्य = धूमव्यभिचारी वह्निरित्याकारकनिश्वयाभावस्य । अनुमित्यजनकत्वेऽपि= साध्य विधेयताकानुमित्यजनकत्वेऽपि । न क्षतिरिति । तादृशानुमितिपदस्य साध्यव्याप्यहेतुमान् पक्षः साध्यवानित्याकार कानुमितिपरतया तस्याश्च व्याप्त्यादिविषयकत्वेन व्याप्त्यादिग्रहविरोधिनि व्यभिचारादौ नाव्याप्तिरित्याशयः । ] व्यभिचारादिग्रहे इत्यत्रादिपदप्रयोजनमाह टीकायाम् आदिनेति । दीधित्युक्तवाशादिनेत्यर्थः । स्वरूपासिद्धिपरिग्रह इति । तथाच हृदो
" Aho Shrutgyanam"