________________
चन्द्रकला-कलाविलासाख्यटीकाद्वयालंकृतम् ४२
गादाधरी एवमपि लिङ्गानुपधानमते तादृशविषयतायां मानाभाव एव, प्रकृतग्रन्थस्तु न लिङ्गोपधानमताभिप्रायकः, तन्मतेऽनुमितेः सर्वत्रैव तथाकारतया तादृशाकारत्वस्याऽव्यावर्तकतयाऽनुमितिपदस्य तादृशानुमितिपरत्वप्रदर्शनाऽसंगतेः।
केचित्तु लिङ्गानुपधानमतेऽनुमितिपदस्य तदुभयपरत्वं व्याख्याय यथाश्रुतपरतानिहाय लिङ्गोपधानमतमाश्रयते साध्यव्याप्येत्यादिना, इत्याकारानुमितिपरम् अनुमितेरित्याकारकतामताभिप्रायकम् , इति व्याचक्षते ।
चन्द्रकला * लक्षणघटकानुमितपदं नाचार्यमतसिद्धानुमितिपरमित्याह एवमपीति । प्रकृतग्रन्थस्तु = साध्यव्यायहेतुमान् पक्षः साध्यवानित्याकारकानुमितिपरं वेतिदीधितिग्रन्थस्तु । न लिंगोपधानेति । नाचार्यमताभिप्रायक इत्यर्थः । कथमित्याकांक्षायामाह तन्मत इति । आचार्यमत इत्यर्थः । सर्वत्रैव = पक्षतावच्छेदकावच्छेदेन साध्यस्थले पक्षतावच्छेदकसामानाधिकरण्येन साध्यस्थले च। तदाकारतया : साध्यव्याप्यहेतुमान् पक्षः साध्यवानिस्याकारतया । तादृशेति । साध्यव्याप्य हेतुमान् पक्षः साध्यवानित्याकारानुमितिपरं वेत्यत्राकारत्वस्येत्यर्थः । अव्यावर्तकतया = व्यावृत्त्यप्रयोजकतया ! तादृशेति । दीधितावनुमितिपदस्य तादृशाकारानुमितिपरस्त्रप्रदर्शनासंगतेरित्यर्थः। तथाच लक्षणघटकीभूतानुमितिपदं नाचार्यमतसिद्धानुमितिपरमिति भावः । जगदीशव्याख्यानमुपन्यस्यति केचित्त्विति । लिंगानुपधानमते - आचार्यातिरिक्तमते । अनुमितिपदस्येति । लक्षणघटकीभूतेत्यादिः । तदुभयेति । अनुमितिनिष्ठकार्यतानिरूपकसम्बन्धवत्त्वेनेत्यादिः । अनुमितितत्कारणोभयपरत्वमित्यर्थः । यथाश्रुतेति । अनुमितिपदस्य शक्यार्थपरतानिर्वाहायेत्यर्थः। लिंगोपधानेति । आचार्यमतमित्यर्थः । आश्रयते दीधितिकार इति शेषः । नन्वेवं इत्याकारकानुमितिपरं वेत्यभिधानमसंगतमित्यत इत्याकारकानुमितिपरमित्यस्य जगदीशाभिप्रेतव्याख्यानमाहानुमितेरिति । लक्षणघटकानुमितेरित्यर्थः। इत्याकारकतेति । साध्यव्यायहेतुविशिष्टे पक्षे साध्यप्रकारकस्वमताभिप्रायकमित्यर्थः। तथा चैतन्मते पर्वतत्वावच्छेदेन वह्वेः साध्यतास्थले पर्वतत्वसामानाधिकरण्येन वलयभावादेर्वाधत्वादिरक्षार्थमेकदेशव्यापकत्वावच्छिन्नसंसर्गताभ्युपगम आवश्यक इति भावः। अनुमितिपदस्य निरुक्तसमूहालम्बनानुमितिपरत्वव्याख्ययैव सर्वसामञ्जस्ये यथोक्तरीत्या व्यायांख्यानमनुचितगौरवमस्तमित्यत: केचिदित्युक्तमितिध्येयम् ।
"Aho Shrutgyanam"