________________
चन्द्रकला कलाविलासाख्यटीकाद्वयालंकृतम्
ॐ दीधितिः अथ विशिष्टविषयकं ज्ञानं प्रतिबन्धकम् , तद्घटकं च न विशिष्टभिति चेत् , तर्हि यथार्थेति व्यर्थम् भ्रमविषयविशिष्टस्या
* गादाधरी तद्रूपावच्छिन्ने हेत्वाभासत्वव्यवहारस्य तद्पावच्छिन्नमात्रज्ञानाद्धेतो दुष्टत्वव्यवहारस्य चाऽनुदयेन इष्टापत्तिन सम्भवतीति भावः ।
यादृशविशिष्टविषयकत्वं ताशाऽनुमितिविरोधिताऽनतिरिक्तवृत्ति तत्त्वमिति विवक्षया न साध्यादावतिव्याप्तिरित्याशयेनाऽशकृते अथेति । विशिष्टविषयकम-साध्याभावववृत्तित्वविशिष्टसाधनादिविषयकमेव । तद्धटकं च-तादृशविशिष्टघटकप्रत्येकपदाविषयकत्वं च । न विशिष्टम्-न ताहशविशिष्टनिरूपितम् । तथाच प्रत्येकपदार्थावषयकत्वस्य प्रतिबन्धकताया अतिरिक्तवृत्तित्वान्नातिव्याप्तिरिति भावः । व्यर्थमिति । यथार्थपदाऽदानेऽपि
चन्द्रकला प्रति व्यवहर्तव्यज्ञानस्य जनकतया तपावच्छिन्ने हेत्वाभासत्वविरहेण हेत्वाभासत्वज्ञानाऽसम्भवात् हेत्वाभासत्वव्यवहारोऽपि न सम्भवतीत्याह हेत्वाभासस्वेति । दोषस्वस्येव दुष्टत्वस्यापि हेताविष्टापत्तिः कत्तु न शक्यत इत्याह तद्रपेति । तद्रूपावच्छिन्नहेतुमानविषयकज्ञानादित्यर्थः। धूमाभाववद्वृत्तिर्वह्निधूमो बहिश्चेत्याकारकसमूहालम्बनज्ञानात् वहेर्दुष्टताया इष्टत्वात् मात्रपदमिति ध्येयम् ।
न सम्भवतीति । तथा च प्रत्येकं साध्यतावच्छेदकधूमत्वाद्यवच्छिन्नमात्रविषयकज्ञानस्यानुमित्यप्रतिबन्धकतया तादृशधूमत्वाद्यवच्छिन्ने हेत्वाभासत्वस्याऽसत्त्वात् ताशप्रत्येकधर्मावच्छिन्नो दोष इति व्यवहाराऽसम्भवेन तत्र दोषत्वादेरिष्टापत्तिः कथमपि न सम्भवतीत्यतः प्रत्येकधर्मावच्छिन्ने हेत्वाभासत्वापत्तिरभिहिता दीधितिकृतेति हृदयम् ।
अथेत्यादिदीधितिमवतारयति यादृशेति । यादृविशिष्टविषयकनिश्चयत्व. मित्यर्थः । तादृशेति । पक्षः साध्यवान् साध्यव्याप्य हेतुमांश्चेत्याकारकानुमितिप्रतिबन्धकतानतिरिक्तवृत्तीत्यर्थः । तत्त्वमितीति । तादृशत्वमिति विवक्षयेत्यर्थः । साध्यादाविति । प्रत्येकमित्यादिः । अतिव्याप्तिरिति ! साध्यादिप्रत्येकविषयक स्वस्थ प्रकृतानुमितिप्रतिबन्धकतातिरिक्तवृत्तित्वान्न साध्यादावतिव्याप्तिरित्याशयः । साध्यति । धूमाद्यभावववृत्तित्वविशिष्टवह्नयादिविषयकमेवेत्यर्थः । तादृशविशिष्टेति । धूमावभावववृत्तित्वविशिष्टवलयाद्यर्थकम् । भावमाह तथाचेति । अतिरिक्तवृत्तित्वात् = प्रकृतानुमितिप्रतिबन्धकतायाः प्रत्येकपदार्थविषयकत्वाव्यापकत्वात् । यथार्थपदव्यर्थतायां हेतुमाह यथार्थेति । प्रकृतलक्षण इत्यादिः।
* कलाविलासः यथार्थेति व्यर्थमिति । नन्वखण्डाभावघटकतयैव सार्थक्यसम्भवे कथं तस्य
"Aho Shrutgyanam"