________________
चन्द्रकला कलाविलासाख्यटीकाद्वयालंकृतम्
* गादाधरी
वादिज्ञानस्य प्रतिबन्धकत्वमावश्यकम, तादृशानुमितेरपि शुद्धपर्यतत्वावच्छेदेन वह्नयाद्यवगाहित्वादिति वाच्यम्, धर्मितावच्छेदकावच्छेदेन वि शिष्टबुद्धौ धर्मितावच्छेदकता पर्याप्त्यधिकर णधर्मावच्छिन्नत्वमेव संसर्गाशे भासते न तु तदेकदेशावच्छिन्नत्वमपि तद्धर्मावच्छिन्नविशेष्यतानिरूपिततदेकदेशव्यापकत्वावच्छिन्नसंसर्गताया अप्रामाणिकत्वात् ।
ॐ चन्द्रकला
४५
रूपसम्बन्धावच्छिन्नवह्नयभावादिप्रकारता कनिश्चयस्येत्यर्थः । आवश्यकमिति । पर्वतत्वसामानाधिकरण्येन वह्नयादिप्रकारकनिश्चयस्य पर्वतस्वावच्छेदेन वह्निप्रकारकबुद्धिप्रतिबन्धकतायाः सर्ववीदिसिद्धत्वादित्याशयः T ताशानुमितेरपि । वह्नयादिव्याप्यधूमादिविशिष्टपर्वतो बह्नचादिमानित्यनुमिलेरपि । शुद्धेति । पर्वतत्वमात्रव्यापक वह्निरतियोगिक संयोगेनेत्यर्थः । वह्नयाद्येति । वह्निकारकत्वादित्यर्थः । तथा च न पर्वतत्वसामानाधिकरण्येन वह्नयभावादेरदोषताप्रसंग इति भावः । समाधत्ते धमितेति । वह्निव्याप्य धूमपर्व तत्व द्वयावच्छेदेनेवर्थः । विशिष्टबुद्धौ = वह्निविशिष्टायामनुमितो | धमितांत | धर्मितावच्छेदकतापर्यात्यधिकरणीभूतवत्यादि व्याप्यधूमपर्वतत्यादिरूपतिय धर्मव्यापकत्र हयादिप्रतियो गिकत्वावच्छिन्नत्वमेवेत्यर्थः । संnt = संयोगाद्यंशे | भासते = विषयीभूर्त भवति । एवकारार्थं विवृणोति नत्विति । तदेकदेशावच्छिनत्वमपि धर्मितावच्छेटकता पर्याप्त्यधिकरणीभूतयत्किञ्चिदूधर्म व्यापक साध्यप्रतियोगिकत्वावच्छिन्नत्वमपि । तद्धर्मेति । वह्निव्याप्यधूमपर्ववत्वरूपधर्मद्वयावच्छिन्न विशेष्यतानि - रूपिततादृशधर्मद्वयैकदेशी भूतपर्यंत त्वमात्र व्यापक व हयादिप्रतियोगिकत्वावच्छिन्नसंसर्गताया इत्यर्थः । अप्रामाणिकत्वादिति । न च तादृशसंसर्गताया अभ्युपगमे को दोष इति वाच्यम्; तथा सति वहिव्याप्य धूम विशिष्टपर्वतो वह्निमानि व्याकारकानुमितिजन्यतादृशसंस्कारस्य पर्वतो वह्निमानित्याकारकस्मरणाद् विनाशापतेः पर्वतत्वव्यापकवह्निप्रतियोगिकसंयोगावगाहिसंस्कारनाशं प्रति पर्वतत्व व्यापकवह्निप्रतियोगिक संयोगाव महिस्मरणस्यैव जनकत्वात् निरुतानुमितिजन्य संस्कारस्यैव भवन्मते तादृशत्वादिति ध्येयम् ।
* कलाविलासः
केचित्तु हृदो वह्निमान् धूमादित्यादौ वह्निव्याप्याभाववद्भदेऽतिव्याप्तेरुक्तरीत्यापि वारणासम्भवात्, सिद्धान्ते च साध्यव्याप्यो हेतुः हेतुमान् पक्षः साध्यवानित्याकारकत्रिखण्डाकारानुमितेरेव लक्षणघटकतया नोक्तदोषः सम्भवतीत्याहुः ।
अप्रामाणिकत्वादिति । तथाच स्वावच्छेदकतात्वावच्छिन्न प्रतियोगिता
"Aho Shrutgyanam"
=