________________
अनुमानगादाधर्यां सामान्यनिरुक्तिप्रकरणम्'
* गाडाधरी वच्छेदेन वहः साध्यत्वे तत्सामानाधिकरण्येन साध्याभावादेरदोषत्वप्रसङ्गः। सामानाधिकरण्यमात्रावगाहिबाधादिज्ञानस्य शुद्धपर्वतत्वावच्छेदेन वह्नयादिज्ञानं प्रत्येव प्रतिबन्धकतया धूमविशिष्टपर्वतत्वावच्छिन्नधर्मिकवह न्यादिज्ञानाऽप्रतिबन्धकत्वादिति तदुपेक्षितम् । , . न च विशेष्यतावच्छेदककोटौ धूमादेरधिकस्य भानेऽपि शुद्धपर्वतत्वावच्छिन्नसंयोगायत्रं संसर्गता तत्र पर्वतत्वसामानाधिकरण्येन वह्नयभा
* चन्द्रकला * वच्छेदेन = पर्वतत्वव्यापकबाह्निप्रतियोगिकसंयोगेन । तत्सामानाधिकर
येन -पर्वतत्वसामानाधिकरण्येन । पर्वतादौ स्वरूपत्वमात्रावच्छिन्नसंसर्गेणेति यावत् । साध्याभावादेरिति । आदिना वह्नयभावव्याप्यपरिग्रहः । अदोषता. प्रसंग इति । शुद्धस्वरूपेण वह्नयभावविशिष्ट पर्वतादावव्याप्तिरित्यर्थः । अव्याप्तिमुफ्पादयति सामानाधिकरण्येति । पर्वतत्वाधवच्छिन्नविशेष्यक स्वरूपत्वमात्रावच्छिन्नसंसर्गताकवह्नयभावादिप्रकारकनिश्चयस्येत्यर्थः । पर्वतत्वेति । पर्वतखादिव्यापकब्रह्वयादिप्रतियोगिकसंयोगेनेत्यर्थः। वह्नयादिप्रकारक बुद्धिं प्रत्येवेत्यर्थः । धूमविशिष्टेति । वह्नयादिव्याप्यधूमविशिष्टपर्वतत्वावच्छिन्नविशेष्यताकवलयादिप्रकारकज्ञानाप्रतिबन्धकवादित्यर्थः। वह्निव्याप्यधूमविशिष्ट पर्वतो वह्निमानित्याकारकानुमितेः पर्वतत्वसामानाधिकरण्याचगाहितया सामानाधिकरण्यावगाहितप्रकारकबुद्धौ . सामानाधिकरण्यावगाहितदभावनिश्चयस्याप्रतिबन्धकत्वात्, पर्वतत्वावच्छेदेन वलयभावादिनिश्चयस्य तादृशधूमविशिष्टपर्वतधर्मिकवह्नयादिज्ञान प्रति प्रतिबन्धकत्वेऽपि पर्वतत्वावच्छेदेन वह्नयभावविशिष्टपर्वतस्याप्रसिद्धतया तस्य दोषत्वाभ्युपगमाऽसम्भवादिति हृदयम् । तदुपेक्षितमिति । अस्माभिरिति शेषः।
ननु वह्निव्यायधूमवान् पर्वतो वह्निमानित्याकारकानुमितौ तादृशधूमपर्वतत्वयोहयोरेव धर्मितावच्छेदकतया भानेऽपि पर्वतत्वावच्छेदेन वह्वर्यत्र साध्यता सत्र निरुक्तानुमितेरपि केवलपर्वतत्वव्यापकवलिप्रतियोगिकसंयोगावगाहित्यमेव स्वीकरणीयम् न तु तादृशधूमपर्वतत्वरूपधर्मितावच्छेदकधमंद्वग व्यापकसंयोगावगाहित्वमपि तत्राभ्युपगन्तव्यम् येन तारशानुमितेः धर्मितावच्छेदकसामानाधिकरण्यावगाहित्वं स्यादिति न पर्वतत्वावच्छेदेन वह्निसाध्यकस्थले पर्वतत्वसामानाधिकरण्येन वलयभावादेदर्दोषतानुपपत्तिरित्याशंकते न चेति । वाच्यमिति परेणान्ययः। विशेष्यतेति । अनुमितीयेत्यादिः । भानेऽपि - धर्मितावच्छेदकत्वेऽपि । शुद्धति । पर्यतत्वमात्रव्यापकवलिप्रतियोगिकत्वसम्बन्धेन पर्वतत्वविशिष्टसंयोगादेरित्यर्थः । पर्वतत्वेति। पर्वतादिविशेष्यकस्वरूपत्वमात्रधर्मावच्छिन्नस्व.
"Aho Shrutgyanam"