________________
अनुमानगादाधय सामान्यनिरुक्तिप्रकरणम्
द्यव्याप्तिश्च वह्नित्वावच्छिन्ने धूमाभाववद्वृत्तित्वग्रहस्य धूमादिव्याप्तिवि शिष्टतव्यक्तित्वावच्छिन्न प्रकारकज्ञानाऽविरोधित्वादतो हेतुतावच्छेदकावच्छिन्नत्वनिवेशः । पक्षांशे साध्यादिप्रकारकस्य संस्कारादेः आहार्यज्ञा
४२
*गाधरी
* चन्द्रकला
वह्नित्वेति । तथाच तादृशहेतुनिष्ठप्रकारताकानुमितित्वस्य धूमव्याप्यत व्यक्तिमानयमित्याकार कानुमितावपि सत्येन तत्र धूमाभाववद्वृत्तिवह्निनिश्चयप्रतिबध्यत्वाभावेन व्यभिचारादिनिश्चयप्रतिबध्यतायास्तादृशानुमितिवाव्यापरत्वादिति भावः । हेतुतावच्छेदकावच्छिन्नत्यनिवेश इति । तादृशव्याप्तिविशिष्ट हेतुप्रकारतायामित्यादिः । नच हेतुतावच्छेदकनिष्ठायच्छेदकताकप्रकारताकत्वनिवेशेनैव नोकस्वरूपासिद्ध्यादावव्याप्तिः हदो वह्निमान् वह्निव्याप्यव्यवान् इत्याकार कानुमितेधूमरूपद्रव्यनिष्टप्रकारताकत्वेऽपि धूमत्वनिष्ठा वच्छेदकताकधूमनिष्ठप्रकारताकत्वविरहेण तस्या धूमत्वरूप हेतुतावच्छेदकनिष्ठावच्छेदकप्रकारताकानुमितिपदेनोपादानासम्भवादिति वाच्यम्, तथा सति पर्वतो वह्निमान् महानसीयधूमादित्यादौ महानसीयधूमाभाववत्पर्वत रूप स्वरूपासिद्धावव्याप्तिः स्यात् पर्वतो वह्निमान वह्निव्याप्यधूमवानित्याकार कानुसितेरपि हेतुतावच्छेदकयविचिन्धूमafष्ठावच्छेदकता प्रकारताकत्वेनोपात्रातुं शक्यतया तत्र महानसीयधूमाभाव. वत्पर्वतनिश्चयस्याऽप्रतिबन्धकत्वादिति ध्येयम् ।
वस्तुतो हेतुतावच्छेदकावच्छिन्नत्वं प्रकारतायां ताध्यव्याप्ति-हेतुतावच्छेदकोभयपर्याप्तावच्छे कताकत्वम् तच्च तादृशोभयनिष्ठावच्छेदकतात्वावच्छिन्नप्रतियोगिताकपर्यात्यनुयोगितावच्छेदकरूपवृत्तित्वम्, तिच स्वावच्छेदकताला नितियोगिता पर्याप्त्यनुयोगितावच्छेदकत्वसम्बन्धेन स्वम् प्रकारतेति ववन्ति ।
ननु लाघवात् पक्षविशेष्यक साध्य कारकसाध्यनिरूपिततादृशव्याप्तिविशिष्टतादृशाहेतुप्रकारकत्वव्यापिका तादृशहेतुप्रव रकज्ञानव्यध्यापिका वा या प्रतिबध्यता तत्रिरुतिप्रतिबन्धकत शालियथार्थज्ञानविषयत्वमेव विवक्ष्यतां तादृशानुमितिपर्यन्तनिवेशनं निरर्थकमित्याशंकायामाह पक्षांश इत्यादि । यदि ताशहेत्वादिप्रकारकत्वव्यापकत्वं प्रतिबध्यतायां निवेश्यते तदाऽसम्भवः स्यात् तादशहेत्यादिप्रकारकत्वस्य रक्षः साध्यवान् साध्यव्याप्यहेतुमान् इत्याकारकसंस्कारेऽपि सस्वात् तत्र च कस्यापि निश्चयस्य प्रतिबध्यताया विरहेण तादृशसाध्य हेतुप्रकारकत्वव्यापकप्रतिबध्यताया अप्रसिद्धत्वात् । एवं तादृशपक्षविशेष्यकसाध्यत्रकारकसाध्यव्यायहेतुप्रकारक ज्ञानत्व व्यापक प्रतिबध्यतानिवेशेऽपि असम्भव एव भवति, तादृश
"Aho Shrutgyanam"
•