________________
चन्द्रकला-कलाविलासाख्य टीकाद्वयालंकृतम्
ऋ गादावरी
४१
तिविशिष्टप्रकारकत्वमात्रनिवेशेऽपि तद्दोषतादवस्थ्यम्, धूमाभाववान् हद इति ज्ञानस्य द्रव्यत्वादिना हेतुमन्ताज्ञानाऽविरोधित्वात् साधारण्या
६ चन्द्रकला
मात्रपदेन ताशहेतुतावच्छेदकावच्छिन्न प्रकारताकत्वनिवेशव्यवच्छेदः । तदोपतेति । पुनः स्वरूपासिद्धौ अव्यासितादवस्थ्यमित्यर्थः । पक्षविशेष्यकसाध्यप्रकारफसाध्यनिरूपिततादृशव्याप्तिविशिष्ट हेतुनिष्ठप्रकारताकानुमितिविवक्षणे हदो वह्निमान् धूमादित्यादौ धूमाभावविशिष्टहदरूपस्वरूपासिद्धावव्याप्तिः तादृशव्यातिविशिष्टहेतुनिष्ठप्रकारताकानुमितिपदेन हदो वह्निमान् वह्निव्याप्यद्रव्यवान् हदो वह्निमानित्यनुमितेरपि तु शक्यतया तत्र च धूमाभावद्द निश्चयस्याप्रतिबन्धकत्वादित्याह धूमाभाववानिति । द्रव्यत्वादिनेत्यादि । वह्नयादिव्याप्यव्यवान् हद इत्याकार कानुमित्यप्रतिबन्धकत्वादित्यर्थः । तादृशव्याप्तिविशिष्टहेतुनिष्टप्रकारताकानुमितिनिवेशे न केवलं स्वरूपासिद्धावव्याप्तिः, व्यभिचारादावव्यव्यातिरित्याह साधारण्येति । आदिना विरोधपरिग्रहः । अव्याप्तिमुपपादयति * कलाविलासः
प्रकृतसाध्य प्रकारतानिरूपित प्रकृतपक्षविशेष्यताकत्व - स्वनिरूपितजनकतावच्छेदकप्रकृतहेतुप्रकारतानिरूपित प्रकृत पक्षविशेष्यता कत्वोभयसम्बन्धेन । तथाच तत्तत्परामर्शजन्यातुमितित्वावच्छिन्नयत किञ्चिजन्यतामादायैव व्यभिचारादौ लक्षणसमन्वयः
सम्भवतीति हृदयम् ।
यद्यपि निरुक्त परम्परायाः संसर्गत्वमस्वीकृत्यैव व्यभिचारादावव्याप्तिरभिहितेत्युच्यते तथापि प्रकृतानुमितित्वावच्छिन्न जन्यतानिष्ठशे भयावृत्तिधर्मावच्छिन्नावच्छेदकतानिरूपित निरूपितत्वनिष्ठावच्छेदकतानिरूपितजनकत्वनिष्ठावच्छेदकतानि रूपितावच्छेदकत्वनिष्टावच्छेदकता निरूपित हेतुतावच्छेदकावच्छिन्नप्रकारत्वनिष्ठाव च्छेदकता निरूपित निरूपितवनिष्ठावच्छेदकतानिरूपितपक्षतावच्छेदकावच्छिन्नविशेयत्वनिष्ठावच्छेदकतानिरूपिता सती या साध्यतावच्छेदकावच्छिन्न प्रकारत्वनिष्ठावच्छेदकता निरूपित निरूपितत्वनिष्ठावच्छेदकतानिरूपित प्रकृतपक्षविशेष्यता - निष्ठावच्छेदकता निरूपितानुमितित्वावच्छिन्नावच्छेदकता तन्निरूपितवृत्तित्वनिष्टावच्छेदकतानिरूपितभेदत्वावच्छिन्नावच्छेदकतानिरूपित प्रतियोगित्वनिष्ठावच्छेदक
तानिरूपितनिरूपितत्वनिष्ठावच्छेदकता निरूपिता या अवच्छेदकतात्वावच्छिन्ना प्रतियोगिता तन्निरूपकाभाववत्प्रतिबध्यतानिरूपित प्रतिबन्धकतेत्यादिरीत्या प्रकारमुद्रयानुगमेन यत्किञ्चिजन्यतामादायैव तद्वयक्तिनिरूपितजनकतावच्छेदकतावद्धे प्रकारतानिरूपितपक्षविशेष्यताशालिनी साध्यतावच्छेदकावच्छिन्न
"Aho Shrutgyanam"