SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ अनुमानगादाधर्यां सामान्यनिरुक्तिप्रकरणम् यादाधरी व्याप्तिविशिष्टविषयकत्वमानस्य तद्विशिष्टहेतुतावच्छेदकावच्छिन्नविषयकत्वमात्रस्य वा निवेशे स्वरूपासिद्धावव्याप्तिः, अतः पक्षांशे तादेशव्याप्तिविशिष्टहेतुतावच्छेदकावच्छिन्नप्रकारकत्वनिवेशः । पक्षांशे व्या चन्द्रकला साध्यान्वयव्याक्षिविषयकसाध्यव्यतिरेकच्याप्तिविषयकानुमितिप्रतिबन्धकत्वविषक्षणे ह्रदो द्रव्यं धूमादित्यादौ धूमाघभावविशिष्टहदादिरूपस्वरूपासिद्ध्यादावव्याप्तिः हृदो व्यत्ववान् इयत्वव्याप्तिमद् गव्य व्याप्यवान् वा इयत्वव्यायो धूमो बेलाकारकानुमितावपि व्याप्तिविशिष्टविषयकानुमितित्वस्य सत्वात् तत्र निरुक्तस्वरूपासिद्धिनिश्चयस्याप्रतिबन्धकत्वादित्याह तादृशेति । अन्वयव्यतिरेकव्यासिविशिष्टविषयकमात्रस्येत्यर्थः । मात्रपदेन अनुमिती तादृशव्याप्तिविशिष्टहेतुप्रकारकत्वव्यवच्छेदः । तद्विशिष्टेति । साध्यान्वयव्यतिरेकड्यासिविशिष्टहेतुतावच्छेदकावच्छिना विशेष्यकानुमितिमात्रस्य वा निवेशे इत्यर्थः । अत: = निरुताव्याप्तितः । पक्षांशे इत्यादि । अनुमितौ पक्षविशेष्यकसाध्यान्वयव्यतिरेकव्यातिविशिष्ट हेतुतावच्छेदकावच्छिन्न प्रकारकत्वनिवेश इत्यर्थः । ननु पक्षविशेष्यकसाध्यध्याप्तिविशिष्टहेतुनिष्टप्रकारताकानुमितिविवक्षणेऽपि न स्वरूपासिद्धावव्याप्तिः, द्रव्यत्वव्याप्यधूमवान् हृदो इव्यमित्याकारकानुमिती धूमाभाववान् हृद इत्याकारकनिश्चयस्य प्रतिबन्धकरवादिति हेतुतावच्छेदकावच्छिन्न प्रकारताकत्वस्यानुमितिविशेषणव्वं निरर्थकमित्यत आह पक्षांश इत्यादि। पक्षविशेष्यकरसाध्यान्वयव्यतिरेकच्याप्तिनिशिष्टहे तुनिष्टप्रकारताकत्वमानस्येत्यर्थः । * कलाविलासः के ___ यदि निरुत्तव्यभिचारेऽव्याप्तिः स्वमतेऽप्यस्तीति विभाव्यते तदा यादृशस्थलविशेषे एकविधव्याप्तिज्ञानादेवानुमितिस्तत्रत्यसाधारण्यादावव्याप्तिर्बोध्येलि ध्येयम् । प्रकृतहेतुकावस्यानुमितावनिवेशे गोत्ववान गोत्वाभावादित्यत्र गोस्वाऽसमानाधिकरणगोत्वाभावरूपविरोधेऽव्याप्तिः, गोत्वव्याप्याभाववानयमित्याकारकनिश्चयोतर जायमानानुमितेरपि प्रकृलसाध्यवानुमितिसामान्यान्तर्गततया तत्र निरुक्तविरोधनिश्चयस्याप्रतिबन्धकत्वात् । नचानुमितिपदं व्यर्थमिति वाच्यम् , तत्पक्षसाच्यहेतुकप्रत्यक्षादेहतुप्रकारकत्वाप्रयोज्यतया तादृशहेतुत्वादेः परामर्शजन्यतावच्छेदकत्वलाभाय तदुपादानसम्भवादिति वदन्ति । ननु तथापि ताहशानुमितित्वावच्छिन्नजन्यताविशिष्टप्रतिबध्यतानिरूपितप्रतिबन्धकताशालियथार्थज्ञानविषयत्वस्य लक्षणार्थत्वे न व्यभिचारादावव्याप्तिः, वैशिष्ट्यम् स्वविशिष्टानुमितित्वव्यापकत्वसम्बन्धेन, स्ववैशिष्ट्यमनुमितौ स्वकालीन. "Aho Shrutgyanam"
SR No.009530
Book TitleSamanyanirukti Chandrakala kalavilas Tika
Original Sutra AuthorN/A
AuthorVamacharan Bhattacharya
PublisherSadhubela Ashram Bhadaini
Publication Year
Total Pages308
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy