________________
अनुमानगादाघ सामान्यनिरुक्तिप्रकरणम्
* गावाघरी
विशिष्योपादाय तदुभयविशिष्ट हेतुप्रकारकत्वमेव निवेश्यम, एकतरमात्रव्याप्यपादाने साधारण्याऽनुपसंहारित्वयोरेकतराऽसंग्रहप्रसङ्गादित्यप्रे व्यक्ती भविष्यति ।
तादृशव्याप्तिद्वयप्रकारतानिरूपितहे तुप्रकारतायाः तत्साध्यकतद्धेतुका
३८
चन्द्रकला
अन्वयविरूपितां साध्याभाववदवृत्तित्वादिरूपां स्वव्यापकसाध्य सामानाधिकरण्यरूपां वा व्याप्तिं व्यतिरेकनिरूपितां साध्याभावव्यापकाभावप्रतियोगित्वविशिष्टहेतुरूपञ्च व्याप्तिमित्यर्थः । विशिष्योपादाय = एकैकां तादृशीं व्याप्तिमुपादाय । तदभयेति । तत्तद्वयाप्तिप्रकारता निरूपित्तविशेष्यत्वावच्छिन्नहेतुप्रकार ताकत्वसेवेत्यर्थः । निवेश्यमिति । लक्षणघटकीभूतायामनुमितावित्यादिः । तथाच 'पक्षतावच्छेदकावच्छिन्न विशेष्यतानिरूपिता या साध्यतावच्छेदकावचिन्तप्रकारता या च साध्यतावच्छेदकावच्छिन्ननिरूपितान्वयव्याप्तिप्रकारतानिरूपित
विशेष्यत्वावच्छिन्नहेतुतावच्छेदकावच्छिन्नप्रकारता तन्निरूपकये सति या वा साध्यतावच्छेदकावच्छिन्ननिरूपितव्यतिरेकव्याप्तिप्रकारता निरुक्तिविशेष्यत्वाव
च्छिन्न हेतुप्रकारता तन्निरूपकानमितित्व व्यापक प्रतिबध्यतानिरूपितप्रतिबन्धकताशालियथार्थज्ञानविषयत्वं हेत्वाभासत्वमिति लक्षणार्थः पर्यवसितः, अन्यथोभगव्याप्तिविशिष्टहेतुप्रकारताकत्वस्यानुमितौ क्षिणे तादृशव्यासिद्वयाभावविशिष्टतावतिव्याप्तिः स्यादिति भावः । एकतरेति । व्यतिरेकव्याप्तिमानस्यो. पादाने अन्वयव्याप्तिमानस्योपादाने वेत्यर्थः । साधारण्येति । साध्याभाववइति
विशिष्टहेतुरूप व्यभिचार-साध्याभावव्यापकीभूताभावाऽप्रतियोगित्वविशिष्टहेतुस्वरूपानुपसंहारित्वयोरित्यर्थः । एकतरेति । व्यतिरेकव्याप्तिमात्रविरक्षणे व्यभिचारे अन्वयव्याप्तिमात्रनिवेशे चानुपसंहारित्वेऽव्यासप्रसंगावित्यर्थः । अग्रे = अत्र वदन्ति
कल्पे । अधिकमभिहितम्प्राप् प्रकृतपक्षकप्रकृतसाध्यहेतुकानुमितिजनकताव
च्छेदकत्वमन्वयव्याप्तिप्रकारतायामिव व्यतिष्कव्याप्तिप्रकारतायामन्यावश्यकमिति
तादृशानुमितिविष्टजन्यतानिरूपितजनकतावच्छेदकपक्षविशेष्यतानिरूपितहेतुप्रकारतावच्छिन्नविशेष्यतानिरु वितत्वावच्छिन्नप्रकारताशाल्यनुमितित्व व्यापकप्रतिबध्यतानिरूपित प्रतिबन्धकताघटितलक्षणार्थनिर्वचनेनैव व्याप्तिद्वय प्रकारताया लाभसम्भवे उभयव्याप्तिविशिष्ट हेतुप्रकान्ताकानुमितिव्यव्यापक प्रतिबध्यताघटितलक्षणानुसरणमनुचितमित्यत आह तादृशेति, अन्वयव्यतिरेकार्थकम् । तत्साध्येति । * कलाविलासः
तत्साध्यकतद्धेतुकेति । अत्र कल्पे अनुमितौ प्रकृतसाध्यकत्वनिवेशनं निरर्थकमिति तु नाशंकनीयम्, तन्निवेशाभावे पर्वती
धूमवान् वह्नेरित्यत्र
"Aho Shrutgyanam"