________________
चन्द्रकला - कलाविलासाख्यटीकायालंकृतम्
व्याप्ती
* गादाधरी
साध्यतावच्छेदकावच्छिन्नीयत्वनिवेशः । अन्वयव्याप्तिव्यतिरेक
* चन्द्रकला ऋ
परित्यज्य
साध्यनिरूपितत्वमात्रविचक्षणेsपि
वच्छेदकावच्छिन्ननिरूपितत्वं धूमवान् वह्नेरित्यादौ धूमाभाववद्वत्तित्वविशिष्टवह्निरूपव्यभिचारे वह्निमान् जलत्वादित्यादौ वह्निमहू त्तित्वाभावविशिष्टजलत्वरूपविशेधे चाव्याप्तिः, निरुकव्यभिचारादिनिश्चयस्य साध्यनिरूपितव्याप्तिविशिष्ट हेतु प्रकारकानुमितिसामान्यान्तर्गतायां धूमवान् द्रव्यव्याप्यवह्निमांश्चायमित्याकारकानुमितावप्रतिबन्धकत्वादिति भावः । व्याप्तौ साध्यतावच्छेदकावच्छिन्नीयत्व निवेशः = साध्यतावच्छेदकतात्वावच्छिन्नप्रतियोगिताकपर्याप्त्यनुयोगितावच्छेदकरूपवृत्तिनिरूपितत्वसम्ब न्धावच्छिन्नप्रकार ताकत्वं व्याप्तौ निवेशनीयमिति तात्पर्यम् । वृत्तित्वञ्च स्वावच्छेदकतास्वावच्छिन्न प्रतियोगिताकपर्याप्त्यनुयोगितावच्छेदकत्वसम्बन्धेन स्वं निरूपितत्वसम्बन्धावच्छिन्नप्रकारत्वम् । तेन महानसीयवह्निमान् धूमादित्यादी महानसीयवह्न्यभाववद्वृत्तित्वविशिष्टधूम रूपव्यभिचारनिश्चयस्य वह्निव्यायधूमवान् महानसीयवह्निमाँश्चायमित्याकारकानुमितावप्रतिबन्धकत्वेऽपि न तादृशव्यभिचारेऽच्याप्तिः, निरुक्कव्यभिचारनिश्चयस्य प्रतिबन्धकताया निर्विवादत्वादिति ध्येयम् ।
महानसीयवह्नित्वावच्छिन्ननिरूपितव्याप्तिग्रहं प्रति
"
ननु साध्यतावच्छेदकावच्छिन्ननिरूपितं यद्यन्वयव्याप्तिमान्त्रमत्र विवक्षितं स्यात् तदा सर्वमनित्यं प्रमेयत्वादित्यादौ नित्यत्वव्यापकीभूताभावाप्रतियोगित्वविशिष्टप्रमेयत्वरूपानुपसंहारित्वेऽव्याप्तिः, साध्याभाववदवृत्तित्वादिरूपान्वयव्याप्तिबुद्धो निरुक्तानुपसंहारित्व निश्चय स्याऽप्रतिबन्धकत्वात् । वाशव्याप्तेव्यतिरेकव्याप्तमात्रपरत्वे तु धूमवान् वह्नेरित्यादौ धूमाभाववद्वृत्तित्वविशिष्टवह्निरूपव्यभिचारेऽव्याप्तिर्दुरा स्यात्, साध्याभावव्यापकाभावप्रतियोगिहे तुरूपव्यतिरेकव्याप्तिबुद्धौ निरुक्तव्यभिचारनिश्चयस्याप्रतिबन्धकत्वादित्यत आह अन्वयेति । * कलाविलासः
अनुपसंधारित्वस्य व्यभिचारान्तर्गतत्वाद् व्यभिचारपदेनैव तल्ला भसम्भवात् । साध्यतेऽनुमीयतेऽनेनेति व्युत्पत्त्या साधनं हेतुः व्याप्तिश्च साधनञ्च साधनञ्च साधने तयोरप्रसिद्धिरितिव्युत्पत्त्या च साधनाऽप्रसिद्धिपदेन हेत्व सिद्धिव्याप्यत्वाऽसिद्धयोर्द्वयोरुपादान सम्भवात् ।
अन्वयव्याप्तीति । एकत्र द्वयमित्यादिरीत्या व्याप्तिद्वयस्य प्रकृत हेत्वं शे विशेषणत्वे तादृशव्याप्तिद्वयाभावविशिष्टतावतिव्याप्तिः स्यात् अतस्तादृशरोत्या निवेशो नात्राभिहितः । निवेशरीतिस्त्वन्यत्रानुसन्धेया ।
"Aho Shrutgyanam"