________________
चन्द्रकला कलाविलासाख्यटीकाद्वयालंकृतम् ३५
* गादाधरी सत, वहिन काञ्चनमय इतिनिर्णयस्य शुद्धवह्नित्वादिना वह्नयाद्यनुमित्यविरोधित्वेऽपि द्वितीयदले प्रकृतसाध्यतावच्छेदकावच्छिन्नान्तर्भावसत्त्वात् , तस्य काञ्चनमयवह्निव्याप्यधूमवान्पर्वत इत्यनुमितिविरोधितया तत्र लक्ष. णगमनात् ।
® चन्द्रकला तादृशाभिमानं निराकर्तुमाहेति तु न सदिति । तादृशाभिमानमूलकं यत्तुमतं न युक्तमित्यर्थः। निरुक्तमतस्यायुक्तत्वे हेतुमाह वह्निनति । इत्यादिनिर्णयस्य = इत्याकारकसाध्याप्रसिद्धिनिश्चयस्य । शुद्धति काञ्चनमयत्वाद्यप्रकारकवह्नित्वमात्रप्रकारकत्वेनेत्यर्थः। वहथेति । पर्वतो वह्निमानित्याकारकानुमित्यप्रतिबन्धकत्वेऽपीत्यर्थः। द्वितीयदले -द्वितीयदलघटकीभूतसाध्यप्रकारतायाम् । तस्य - पूर्वोक्त साध्याप्रसिद्धिनिर्णयस्य । इत्यनुमितिविरोधितया = इत्याकारकानुमितिप्रतिबन्धकतया। तत्र = निरुक्तसाध्या प्रसिद्धौ। लक्षणगमनादिति । अयमाशयः, काञ्चनमयत्वाभावविशिष्टवह्निनिश्चयस्य काञ्चनमयत्वप्रकारेण वह्निविषयकबुद्धिमान प्रतिबन्धकतया लक्षणघटकानुमितौ पक्षांशे साध्यनिष्टप्रकारताकत्वमानविवक्षणेऽपि नोक्तनिश्चयविषयीभूतायां साध्याप्रसिद्धावव्याप्तिः, ताशसाध्यप्रकारकानुमितेः पर्वतो वह्निमान् काञ्चनमय वह्निव्यायधूमवाँश्चेत्याकारकानुमितिस्वरूपताया आवश्यकतया काञ्चनमयत्वविशिष्टवह्निविषयकत्वाऽव्याघातेन तत्र यथोक्तसाध्याप्रसिद्धिनिश्चयस्य प्रतिबन्धकत्वादिति ।। ननु अनुमिती पक्षांशे साध्यप्रकारकत्वमात्रस्यैव निवेशोऽस्तु किं तत्र
* कलाविलासः * वह्निर्न काञ्चनमय इत्यादि । नन्वत्रापि प्रकृतपक्षस्येव साध्यस्यापि सकृन्निवेशसम्भवे साध्याप्रसिद्धयादावव्याप्तिवारगेन यत्तुमतखण्डनमसंगतम् , तथा च साध्यतावच्छेदकविशिष्टानुमितित्वव्यापकप्रतिबध्यतानिरूपिवेत्यादिरीत्या लक्षणं निर्वाच्यम् , वैशिष्ट्यम् स्वावच्छिन्नप्रकारतानिरूपित प्रकृतपक्षविशेष्यताकत्वस्वावच्छिन्ननिरूपितव्याप्तिविशिष्ट प्रकृत हेतुप्र कारतानिरूपितप्रकृतपक्षविशेष्यताकत्वो. भयसम्बन्धेनेति चेन्न, निरुक्तपरम्परायाः संसर्गत्वस्वीकारे मानाभावात् , पक्षपदस्य सकृदुल्लेखेन सकृन्निवेशोपयोगिपूर्वोक्तपरम्परायाः संसर्गत्वस्याभ्युपगमात्, साध्यपदस्य द्विधोल्लेखेन सकृन्निवेशोपयोगिनिरुक्तपरम्परायाः संसर्गत्वस्यास्वीकरणीयत्वादिति ध्येयम् ।
"Aho Shrutgyanam"