________________
अनुमानगादाधर्यां सामान्यनिरुक्तिप्रकरणम्
* गाडाधरी यत्तु साध्याऽप्रसिद्ध्यव्यानिवारणप्रयोजनकत्वं तदुपादानस्येति तन्न
चन्द्रकला प्रतिबन्धक ताशालियथार्थज्ञानविषयताया वह्नयभावादिमद्धदादिरूपबाधादावुपपादयितुमशक्यत्वादितिभावः । अत्र प्रकारतायां साध्यतावच्छेदकावच्छिन्नत्वमपि साध्यतावच्छेदकतात्वावच्छिन्न प्रतियोगिताकपर्याप्त्यनुयोगितावच्छेदकरूपवृत्तित्वरूपं वक्तव्यम् । वृत्तित्वश्च स्त्रावच्छेदकतात्यारच्छिन्नप्रतियोगिताकपत्यनुयोगितावच्छेदकत्वसम्बन्धेन । स्वं प्रकारत्वम्, तेन पर्वतो वह्निजलोभयवान् धूमादित्यादौ वह्निजलोभयाभाववत्पर्वतरूपबाधनिश्चयस्य पर्वतो वह्रिमानि. त्याकारकानुमित्यप्रतिबन्धकत्येऽपि न तादृशोभयाभावविशिष्टपर्वतादिरूपबाधादासाव्याप्तिः न वा हृदो वह्निमानित्यादौ वयभाववद्दादिरूपबाधनिश्चय स्य हदविशेष्यकवह्निघटोभयप्रकारकानुमित्यप्रतिबन्धकत्वेऽपि तादृशबाधादावव्यासिरिति ध्येयम् । ___ प्रकारान्तरेण प्रकारतायां साध्यतावच्छेदकतापर्यापत्यधिकरणधर्मावच्छिन्नत्वनिवेशप्रयोजनं वर्णयतां मतं दूषयितुमुपन्यस्यति यत्त्विति । साध्यतावच्छेदकतापर्याप्त्यधिकरणधर्मावच्छिन्नप्रकारताकत्वं विहाय साध्यनिष्टप्रकारताकत्वस्यानुमितौ विवक्षणे पर्वतः काञ्चनमयवतिमान् धूमादित्यादौ ६ञ्चनम् यस्वाभावपतिरूपसाध्याप्रसिद्धावव्यातिः, साध्यनिष्ठप्रकारताकानुमितिपदेन पर्वतो वलिमानित्याकारकानुमितेरपि धतुं शक्यतया तादृशानुमितिप्रतिबन्धकताया यथोक्तसाध्याप्रसिद्धि निश्चये विरहात् साध्यनिष्ठप्रकारताकानुमितित्वव्यापक. प्रतिबध्यतानिरूपित प्रतिबन्धकताशालियथार्थज्ञानविषयत्वस्य ताशसाध्याप्रसिहायसवादित्यभिमानेनाह साध्याप्रसिद्ध्येति । तदुपादानस्य = प्रकारतायां साध्यतावच्छेदकतापर्याप्त्यधिकरणधर्मावच्छिन्नत्वोपादानस्य ।
ककलाविलासः न च तथापि बाधस्वरूपासिद्धथादिष्वपि पक्षतावच्छेदकतायाः पर्याप्त्यनिवेशे अव्यातिसम्भवे तदनुत्तौ पुनयूनता स्यादिति वाच्यम् , आद्यन्तोत्कोत्तनेन मध्यपतितयोरपि ग्रहण सम्भवात् , यद्रूपावच्छिन्नविषयिताशालिनिश्चयत्वव्यापकः प्रकृतानुमित्यप्रतिबन्धकत्वासाधारण्यविषयिताशून्यत्वोभयाभावस्तद्रूपवत्त्वमित्यस्य विवक्षणीयतयाऽसाधारण्येऽव्याप्ति विरहाच्च । ___ केचित्तु पर्वतो वह्निमान् गगनादित्यत्र अवृत्तिगगनादेरेव स्वरूपासिद्धितया स्वरूपासिद्धित्वावच्छेदेन पक्षतावच्छेदकतापर्याप्त्यनिवेशे अव्याप्त्यसम्भवाद् बाधाश्रयासियोरव्याप्त्यभिधानमित्याहुः ।
"Aho Shrutgyanam"