________________
३
३
चन्द्रकला-कलाविलासाख्यटीकाद्वयालंकृतम्
गादाधरी * साध्यतावच्छेदकावच्छिन्नसाध्यप्रकारकत्वाऽनिवेशे परामर्शाविरोधि. तया बाधसत्प्रतिपक्षयोरव्याप्तिः, तत्र साध्यतावच्छेदकावच्छिन्नत्वस्यानुपादानेऽपि तद्दोषतादवस्थ्यम्, वदित्वावच्छिन्नाभावादिनिश्चयस्य धूमजनकतेजस्वी वह्निव्यायधूमवांश्च हद इत्याद्यनुमित्यप्रतिबन्धकत्वात् ।
* चन्द्रकला इतरवारकपर्याप्तिनिवेशव्यावृत्तिस्तु ग्रन्थकृतेवाग्रे प्रदर्शयिष्यते । एवमऽपि = अब बदन्तीत्यादिलक्षणेऽपि । ___ ननु अनुमिती साध्यव्याप्य हेतुप्रकारकत्वमात्रनिवेशेनैवोपपत्तौ तत्र साध्यतावच्छेदकाचछिन्नसाध्यपकारकत्वनिवेशनमनुचितमिस्वत आह साध्यतेति । परामर्शाविरोधितया = साध्यव्यायहेतुप्रकारकपक्षविशेष्यकज्ञानप्रतिवन्धकयथार्थज्ञानाविषयतया ।
अव्याप्तिरिति । दो वहिमान भूमादित्यादौ वा यभावविशिष्टहदरूपबाधनिश्चयस्च वलयभापव्यायविशिष्टहादरूवारप्रतिपक्षनिश्चयस्य च हृदो वह्निव्यायधूमागिल्लाकारकानुनिखातिबन्धकतया निरुतबाधादावव्याप्तिः स्यात्, यदि प्रकृतसाध्यप्रकारकत्वस्थानुमिती निवेशो न स्यादिति हृदयम् ।
यद्यपि साध्यनिष्टप्रकारताकत्वमात्रस्थानुमिती विवक्षणेऽपि नोजाव्याप्तिः साध्यव्याप्य हेतुमात्रनिष्टप्रकारताकानुमितेः साध्यागकारकत्वादियुच्यते तथापि न निस्तार इत्याह तत्रेति ! लक्षणयटकीभूतानुमितीयसाध्यनिष्टकारतायामित्यर्थः । तदोषताददस्थ्यम् = पूवोक्तवाधसत्प्रतिपक्षयोरव्याप्तितादवस्थ्यम् । कथमित्याकांक्षायामाह वह्नित्वेति । तथाचानुसितौ साध्यनिष्टप्रकारताकत्यविवक्षणे हदो वह्निमान् धूमादित्यादौ पूर्वोत्कबाधसत्प्रतिपक्षयोरव्याप्तिः, वह्निरूपसाध्यनिष्टप्रकारताकानुमितित्वस्य हृदोधूमजनकतेजस्वी वह्निव्यायधूमवॉश्चेत्याकारकाजुमिताव पि' सत्वेन तत्र यथोक्तबाधादि निश्चयप्रतिबध्यत्वविरहात साध्यज्याप्यहेतुप्रकारकसाध्यनिष्टप्रकारताकानुमितित्वव्यापकप्रतिबध्यतानिरूपित -
* कलाविलासः * जच न्यूनवारकपर्याप्त्यनिवेशे अतेजस्वी पर्वतो वह्निमानित्यत्रैव तेजस्वित्वविशिष्टपर्वतरूपाश्रयासिद्धावव्याप्तिसम्भवे काञ्चनमयपर्वतो वह्निमानित्यत्राश्रयासिद्धापव्याप्तिदानमचितमितिवाच्यम्, पर्वतत्वसामानाधिकरण्येन तेजःसामान्याभावस्य पक्षतावच्छेदकतया ताशपक्षतावच्छेद कविशिष्ट पक्षशानं प्रति पर्वतस्वावच्छेदेन तेजोवत्त्वनिश्चयस्य विरोधित्वात् तादृशनिश्चयविषयस्याप्रसिद्धया स्थलान्तर एवाश्रयासिद्धावव्याप्तेरभिहितत्वात् ।
"Aho Shrutgyanam"