________________
३२ अनुमानगादाधर्या सामान्यनिरुक्तिचिन्तामणिप्रकरणम्
® गादाधरी अवच्छेदकत्वं च तत्पर्याप्त्यधिकरणत्वम् , तेनाऽतेजस्वी पर्वतो वह्निमानित्यादौ विशिष्टपर्वतत्वादिति वहन्याद्यभावरूपबाधस्य, काछनमयपवतो वह्निमानित्यादी चाऽश्रयाऽसिद्धेः शुद्ध पर्वतत्वावच्छिन्नपक्षकाऽनुमित्यविरोधित्वेऽपि नाऽसंग्रहः । एवमग्रेऽपि बोध्यम्।
चन्द्रकला योगितावच्छेदकत्वसम्बन्धेन, स्वं विशेष्यत्वमित्याहावच्छेदकत्वश्चेति । पक्षतावच्छेदकत्वञ्चेत्यर्थः।
तत्पर्याप्त्येति । पक्षतावच्छेदकतापर्याप्त्यधिकरणत्वमित्यर्थः । तेन - तत्पर्याप्त्यधिकरणत्वरूपस्य पक्षतावच्छेदकत्वस्य विवक्षणेन । अतेजस्वी = तेजःसामान्याभाववान् । विशिष्टेति । तेजासामान्याभावविशिष्टपर्वतत्वावच्छिन्ने इत्यर्थः । पक्षाप्रसिद्धः = काञ्चनमयत्वाभाववत्पर्वतरूपएक्षाऽप्रसिद्ध । शुद्धेति । पर्वतो वह्निमान् वह्निव्याप्यधूमवानिल्याकारकानुमितिप्रतिबन्धकज्ञानाऽविषयत्वेपीत्यर्थः। नासंग्रहः =नाव्याप्तिः।
पक्षतावच्छेदकनिष्टावच्छेदकताकविशेष्यताकत्वमात्रस्यानुमिती निवेशे अते. जस्वी पर्वतो वह्निमानित्यत्र वहन्यभावविशिष्टातेजस्विपर्वतरूपबाधे काञ्चनमय. पर्वतो वह्निमानित्यत्र काञ्चनमयत्वाभावविशिष्टपर्वतरूपाश्रयासिद्धौ चाव्याप्तिः, पक्षतावच्छेदकनिष्टावच्छेदकताकानुमितित्वस्य पर्वतो वह्निमान् वह्निव्याप्यधूमवानित्याकारकानुमितावपि सत्त्वेन तत्र निरुक्तबाधादिनिश्चयप्रतिबध्यत्वस्य विरहात् पक्षतावच्छेदकनिष्ठविशेष्यताकानुमितित्वव्यापकप्रतिबध्यतानिरूपितप्रतिबन्धकताशालियथार्थज्ञानपदेन यथोक्तबाधाश्रयासिद्धिनिश्चयस्योपादानासम्भवादिति भावः।
8 कलाविलासः तत्पर्याप्त्यधिकरणत्वमिति। नन्वत्रातेजस्वी पर्वतो वह्निमानित्यत्र वलयभावव्याप्यवत्ताशपर्वतरूपसत्प्रतिपक्षेऽप्यव्याप्सिसम्भवे तदनुक्तौ न्यूनतेति चेन्न ।
सत्प्रतिपक्षत्वावच्छेदेनाव्याप्ति विरहात्, तत्राव्याप्तेरनभिहितत्वात् , तद्वयक्तिस्वव्यापकवहन्यभावसमानाधिकरणतव्यक्तित्ववत्पर्वतरूपसत्प्रतिपक्षे लक्षणसमन्वयसम्भवात, ताहशसत्प्रतिपक्षनिश्चयप्रतिबध्यताया अतेजस्वी पर्वतो वह्निमान् पर्वत:वह्निमानितिशानद्वयसाधारणतया प्रतिबध्यतावच्छेदककोटौ पर्वतत्वांशे इतरवारकपर्याप्त्यनिवेशेन तादृशानुमितित्वव्यापकत्वात् , निरुक्तज्ञानविशिष्टज्ञानात्मकसत्प्रतिपक्षनिश्चयस्य पर्वतत्वसामानाधिकरण्यावगाहित्वेऽपि पर्वतत्वसामानाधिकरण्यावगाहिनिरुक्तानुमितिप्रतिबन्धकतायास्तर्कग्रन्थे मथुरानाथेनोक्तत्वादिति ध्येयम् ।
"Aho Shrutgyanam"