________________
चन्द्रकला-कलाविलासाख्यटोकाद्वयालंकृतम्
* चन्द्रकला पक्षतावच्छेदकावच्छिन्नविशेष्यकत्वं विहाय पक्षविशेष्यकरवमात्रस्यानुमितौ विवक्षणेऽपि पूर्वोक्तबाधादावव्याप्तिः, हृदनिष्ठविशेष्यताकवह्निप्रकारकवहिव्या. प्यधूमप्रकारकानुमितित्वस्य द्रव्यं वह्निमद् वह्निव्याप्यधूमवच्चेत्याकारकानुमितावपि वर्तमानतया तत्र वहन्यभावादिविशिष्टहदादिनिश्चयप्रतिबध्यस्याऽसत्त्वात् यन्निश्चयपदेन निरुक्तबाधादिनिश्चयस्य धर्तुमशक्यत्वादिति भवति पूर्वोक्तबाधादाबज्याप्तिरिति तात्पर्यम् ।
पक्षतावच्छेदकावच्छिन्न त्वं विशेष्यतायां न पक्षतावच्छेदकनिष्ठावच्छेदकताकस्वमपितु पक्षतावच्छेदकताल्वावच्छिन्न प्रतियोगिताकपर्याप्त्यनुयोगितावच्छेदकरूपवृत्तित्वरूपमेव । वृत्तित्यञ्च स्वावच्छेदकतात्वावच्छिन्न प्रतियोगिताकपर्याप्त्यनु
कलाविलास: *
व्यापकीभूताभावप्रतियोगि जलं जलवांश्च हृद इत्याकारकनिश्चये प्रकृतपक्षाघटितानुमित्यप्रतिबन्धकत्व-पक्षधर्मिकहेतुमत्ताज्ञान कालीनत्वयोः द्वयोः सत्त्वेन तत्राच्याप्तिवारणाऽसम्भवादिति चेन्न, यद्रूपावच्छिन्नविषयकनिश्चयत्वव्यापकः प्रकृतानुमित्यप्रतिबन्धकत्व-असाधारण्यविषयिताशून्यत्वोभयाभावस्तद्रूपवत्त्वमित्युक्ती असाधारण्येऽव्याप्तिशंकावतारासम्भवात् , यत्रासाधारण्याप्रसिद्धिस्तत्रापि भ्रमशानीयासाधारण्यविषयितायाः प्रसिद्धिसम्भवादिति वदन्ति ।
नच द्वितीयदले प्रकृतपक्षस्य प्रवेशादेव स्वरूपासिद्धयादौ नाव्याप्तिरिति कथं तत्राव्याप्त्यभिधानमिति वाच्यम्, अनुमितौ प्रकृतपक्षकत्वस्य सकृन्निवेशाभिप्रायत एव तत्र तत्राव्यासरभिहितत्वात् । तथाच पक्षतावच्छेदकविशिष्टा. नुमितित्वव्यापकप्रतिबध्यतेत्यादिरीत्या लक्षमार्थस्य निर्वाच्यतया तद्धटकपक्षतावच्छेदकादेरप्रवेशे भवति स्वरूपासियादावव्याप्तिः। वैशिष्टयं स्वा. वच्छिन्नविशेष्यतानिरूपितप्रकृतसाध्यतावच्छेदकावच्छिन्नप्रकारताकत्व स्वावच्छिम्नविशेष्यतानिरूपितप्रकृतसाध्यव्याप्यहेतुप्रकारताकत्वोभयसम्बन्धेनेति ध्येयम् ।
अथवा साध्यतावच्छेदकावच्छिन्नप्रकारताविशिष्टसाध्यव्याप्यहेतुतावच्छेदकावच्छिन्नप्रकारताशाल्यनुमितिपरमनुमितिपदं, वैशिष्टयम् स्वनिरूपकज्ञानीयत्व-स्वनिरूपितविशेष्यतावच्छेदकपक्षतावच्छेदकावच्छिन्नविशेष्यतानिरूपितत्वोभयसम्बन्धेनेति न कोऽपि दोषः ।
"Aho Shrutgyanam"