________________
३० अनुमानगादाधर्या सामान्यनिरुक्तिचिन्तामणिप्रकरणम्
* गादाधरी * बाधसत्प्रतिपक्षस्वरूपासिद्ध्याश्रयासिद्धिषु अव्याप्तिवारणाय प्रकृतपक्षतावच्छेदकावच्छिन्न पक्षविशेष्यकत्वनिवेशः। द्रव्यत्वादिना हृदादिविशेष्यकानुमितो तथाविधबाधनिश्चयस्याऽप्रतिबन्धकत्वात्तदोषतादवस्थ्यमतः पक्षतावच्छेदकावच्छिन्नत्वोपादानम् ।
ननु केवलसाध्यप्रकारकसाध्यव्याप्यहेतुप्रकारकानुमितिसामान्यप्रतिबन्धकत्ववटितमेव लक्षणमुच्यतामनुमितौ पक्षविशेष्यकत्वनिवेशो निरर्थक इत्यत आह बाधेति ।
तथाचानुमिती पक्षविशेष्यकत्वाऽविवक्षणे हृदो वह्निमान् धूमादित्यादौ वह्नयभावविशिष्टहदरूपबाधे वह्नयभावव्याप्यविशिष्टहदरूपसत्प्रतिपक्षे धूमाभावविशिष्टहदात्मक स्वरूपासिद्धौ काञ्चनमयपर्वतो वह्निमान् धूमादित्यादौ काञ्चनमयत्वाभावविशिष्टपर्वतरूपाश्रयासिद्धौ चाव्याप्तिः, साध्यप्रकारकसाध्यव्याप्यहेतुप्रकारकानुमितित्वस्य जलं वह्निमद् वह्निव्याप्यधूमवञ्चेत्याकारकानुमितावपि सत्त्वेन तत्र ताशबाधादिनिश्चयप्रतिबध्यत्वविरहे पक्षविशेष्यकत्वाघटितानुमितित्वव्यापकत्वस्य निरुक्तबाधादिनिश्चयप्रतिबध्यतायामसत्वात् , यन्निश्चयप्रतिबध्यत्वं तादृशसाध्यादिप्रकारकानुमित्वव्यापकं तनिश्चयविषयस्यैव दोषत्वादिति हृदयम् ।
ननु तथापि पक्षनिष्टविशेष्यताकत्वस्यानुमितौ विवक्षणे नोक्ताव्याप्तिः, जलादेः पक्षानास्मकतया तद्विशेष्यकानुमितौ साध्यादिप्रकारकानुमितित्वाऽसम्भवादित्यत आह द्रव्यत्वादिनेति ।।
आदिपदात् प्रमेयस्वादिपरिग्रहः । तथाविधेति । वढ्यभावविशिष्टहृदादिरूपबाधादिनिश्चयस्येत्यर्थः । तद्दोषतेति । बाधसत्प्रतिपक्षस्वरूपासिद्धयाश्रयासिद्धिष्वव्याप्तितादवस्थ्यमित्यर्थः ।
____® कलाविलासः बाधसत्प्रतिपक्षेति । ननु असाधारण्ये ऽप्यव्यासिः, साध्यव्यापकीभूतामावप्रतियोगिहेतुरूपाऽसाधारण्यनिश्चयस्य पक्षधर्मिकहेतुमत्त्वज्ञानसहकारेणैव प्रकृतपक्षधर्मिकप्रकृतसाध्यानुमितिप्रतिबन्धकत्वादिति तत्राऽव्याप्तिपरित्यागः नियुक्तिकः । नच प्रकृतपक्षविशेष्यकत्वनिवेशेऽपि तत्राऽव्याप्तिरस्ति साध्यव्यापकीभूताभावप्रतियोगिहेतुनिश्चयत्वस्य पक्षधर्मिकहेतुमत्त्वज्ञानाऽकालीनेऽपि ताशनिश्चये सत्त्वात् , तत्राऽनुमितिप्रतिबन्धकत्वस्य विरहादिति वाच्यम् , यद्र्पावच्छिन्नविषयिताव्यापकः प्रकृतानुमित्यप्रतिबन्धकत्व-पक्षधर्मिकहेतुमत्ताज्ञानकालीनत्वोमयाभावस्तद्रूपवत्त्वस्य विवक्षितत्वात् । भवन्मते वह्नि
"Aho Shrutgyanam'