________________
चन्द्रकला-कलाविलासाख्यटीकाद्वयालंकृतम्
क गादाधरी पयवसितार्थः। एवं च साध्यतावच्छेदकावच्छिन्नादिप्रकारकानुमितिसामान्यान्तर्गतायां पर्वतो वह्निमान् वह्निव्याप्यधूमवांश्चेत्याधनुमितो हृदोन वह्निमानित्यादिनिश्चयस्याऽप्रतिबन्धकत्वान्नातिप्रसङ्गः।
ॐ चन्द्रकला * प्रकृतसाध्यप्रकारकप्रकृतसाध्यव्याप्यहेतुप्रकारकसमूहालम्बनानुमितित्वार्थकम् । पर्यवसिनाऽर्थडति । लक्षणस्येत्यादिः। जिज्ञासानिवृत्तये वाह साध्यतेति । प्रकृतेत्यादिः। नातिप्रसङ्ग इति । तथाच पक्षः साध्यवान् साध्यव्याप्याहेतुमाँश्चेत्याकारकसमूहालम्बनानुमितिस्वव्यापकप्रतिवध्यतानिरूपितप्रतिबन्धकताशालियथार्थज्ञानविषयत्वस्य लक्षणार्थत्वे न पर्वतो वहिमान् धूमादित्यादौ वयभावविशिष्टहदादावतिव्याप्तिः, पर्वतो वह्निमान् वह्निव्याप्यधूमवानित्याकारकानुमितित्वस्य वह्निमद्धदाद्यविषयककेवल-पर्वतो वह्निमान् वह्निव्यायधूमवाँश्चेत्याकारकानुमितावपि सत्त्वेन तत्र वयभावविशिष्टहृदादिनिश्चयप्रतिबध्यताविरहेण बह्वयभाववद् ध्रदनिश्चयप्रतिबध्यत्वस्य पर्वतो वह्निमान् वह्निव्यायधूमवाश्चेत्याकारकसमूहालम्बनानुमितित्वाऽव्यापकरवात्, यथार्थज्ञानपदेन वलयभावविशिष्टहृदविषयकनिश्चयस्योपादातुमशक्यत्वादिति भावः।
* कलाविलासः सम्हालम्बनयतकिञ्चिदनुमितिव्यक्तिमादाय तद्व्यक्तिनिष्ठप्रतिबध्यतानिरूपितप्रतिबन्धकताशालियथार्थज्ञान विषयवमित्युक्तावेव पदार्थान्तरविषयकताहशानुमितिमादायोदासीने ऽतिव्याप्तिवारणसम्भवे तादृशानुमितित्वव्यापकप्रतिबध्यत्वनिदेशनमचिमिति चेन्न, यादृशस्थले हृदो वह्निमान् वहिव्याप्यधूमवाँश्च हृद इत्याकारिकानुमितिः कदाचिद् घटवद्भूतलविषयिणी कदाचिच्च पटवद्भूतलविर्षायणी नियमतो भवति, नतु तादृशाऽन्यतरावगाहित्वं परित्यज्य भवति, ताशस्थले घटाद्यभाववद्भुतलादातिव्याप्त्याऽऽपत्तेः, निरुक्तान्यतरावगाहिअनुमितिव्यक्तिनिष्ठप्रतिबध्यतानिरूपितप्रतिबन्धकत्वस्य घटाद्यभाववद्भूतलादिनिश्चये सत्त्वात् ।
व्यापकत्वस्य निवेशे तु न तत्राऽतिव्याप्तिः तादृशानुमितित्वस्य पटवद्भुत लादिविषयकानुमितावपि सत्त्वेन तत्र घटाद्यभाववद्भूतलादिनिश्चयात बध्यत्वविरहात् निरुक्तानुमितित्वव्यापकताया घटाद्यभाववद्भूतलादिनिश्चयप्रतिबध्यतायामसत्त्वात् ।
"Aho Shrutgyanam'