________________
२८ अनुमानगादाधयां सामान्यनिरुक्तिचिन्तामणिप्रकरणम्
* गादाधरी * प्रकृतपक्षतावच्छेदकविशिष्टपक्षे प्रकृतसाध्यतावच्छेदकावच्छिन्नतव्याप्तिविशिष्टप्रकृतहेतुतावच्छेदकावच्छिन्नप्रकारकानुमितिसामान्यपरमित्यर्थः । एवं च समूहालम्बनानुमितेाप्त्यादिविषयकतया व्यभिचारादिज्ञानप्रतिबध्यत्वान्न व्यभिचाराद्यसङ्ग्रहः । दर्शितसमूहालम्बनानुमितिप्रतिबन्धकतामादायाऽतिप्रसङ्गवारणाय सामान्यपदम् । तथाच ताहशानुमितित्वव्यापकप्रतिबध्यतानिरूपितप्रतिबन्धकताशालियथार्थज्ञानविषयत्वं
* चन्द्रकला * प्रकृतेति । प्रकृतपक्षतावच्छेदकावच्छिन्नविशेष्यतानिरूपितप्रकृतसाध्यतावच्छेदकावच्छिन्नप्रकारताय.प्रकृतसाध्यतावच्छेदकावच्छिन्ननिरूपितव्याप्तित्वावच्छिन्न । प्रकारतानिरूपितप्रकृतहे तुतावच्छेदकावच्छिन्नविशेष्यत्वावच्छिन्नप्रकारताकानुमितिसामान्येच्छया लक्षणघटकीभूतमनुमितिपदमुच्चरितमित्यर्थः । ___अव्याप्त्यादिकं वारयितुमाह एवंश्चेति । अनुमितिपदस्य निरुक्तानुमितिसामान्यपरत्वाभिधाने चेत्यर्थः। तादृशेति । पक्षः साध्यवान् साध्यव्याप्यहेतु. मानित्याकारकानुमितेरित्यर्थः । व्याप्त्यादीति । व्याप्स्यवच्छिन्नहेतुप्रकारकतया साध्यप्रकारकतया चेत्यर्थः । व्यभिचारेति । व्यभिचारबाधादिविषयकयथार्थज्ञानप्रति बध्यत्वादित्यर्थः। न व्यभिचाराद्यसंग्रहान व्यभिचारबाधादावव्याप्तिरसम्भवो वा।
सामान्यपदप्रयोजनमाह दर्शितेति । पर्वतो वहिमान् ह्रदश्च तथा वह्विव्याप्यधूमवाश्चेत्याकारकसमूहालम्बनानुमितिप्रतिबन्धकतामादायेत्यर्थः । अतिप्रसंगवारणाय =पर्वतपक्षकवह्निसाध्यकधूमहेतुकस्थले वयभावविशिष्टहदादावतिव्यालिवारणाय ।
ननु सामान्यपदोपादानात् कथं नातिव्याप्तिरित्यत आह. तथाचेति । सामान्यपदोपादाने चेत्यर्थः । तादृशानुमितित्वेति । प्रकृतपक्षविशेष्यक
4 कलाविलासः न्यतरसम्बन्धेन तादृशानुमितित्वावच्छिन्नकार्यताविशिष्टा या विषयिता तदवच्छिन्नप्रतिबध्यतानिरूपितेत्यादिरीत्या लक्षणार्थनिर्वचने न पूर्वोक्तातिव्याप्तिः। वहत्यभावविशिष्टलदनिश्चयप्रतिबध्यतायाः पर्वतधर्मिकवहन्यनुमितिनिष्ठकार्यताविशिष्ट विषयित्वानवच्छिन्नत्वात् ।
न वा बाधव्यभिचारादावव्याप्तिर्वाधादिनिश्चयप्रतिबध्यतायाः पक्षधर्मिकसाध्यानुमितित्वावच्छिन्न कार्यताविशिष्टविषयित्वावस्छिन्नत्वादिति चेन्न, अन्यतरत्वस्याऽखण्डस्यासत्त्वे गौरवस्य पूर्व प्रदर्शितत्वात् इति तु विभावनीयम् ।।
तथाच तादृशानुमितित्वव्यापकेति। अथ पदार्थान्तराविषयकनिरुक्त
"Aho Shrutgyanam"