SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ चन्द्रकला - कलाविलासाख्यटीकाद्वयालंकृतम् * दीधितिः साध्यव्याप्यहेतुमान् पक्षः साध्यवानित्याकारानुमितिपरं वा । * गादाधरी तादृशप्रतिबध्यतानिरूपक ज्ञानविषय उभयविरोधिपक्षाऽप्रसिद्ध्यादावेव त्वसत्त्वादतः कल्पान्तरमाह साध्यव्याप्येति । * चन्द्रकला ऋ २७ हेत्वादिरूपव्यभिचारनिश्चयप्रतिबध्यतायाः तादृशविषयताश्रय महत्वस्य केवलपरामर्शेऽपि वर्त्तमानतया तत्र च साध्याभाववत्पक्षादिरूपबाधादिनिश्चयप्रतिबध्यतायाश्च विरहेण व्यभिचारबाधादिनिश्चयप्रतिबध्यतायाः तादृशविषयताश्रयग्रहत्वा व्यापकतया यथार्थज्ञानात्मक निश्चयपदेन व्यभिचारबाधादिनिश्चयस्योपादानाऽसम्भवाद् भवति बाधादावव्याप्तिरित्याशयः । ननु प्रकृतानुमितिनिष्टकार्यताप्रत्यक्षजनकप्रत्यक्षविषयत्ताश्रयग्रहत्व व्यापक प्रतिबध्यताघटितस्य लक्षणार्थत्वेऽसम्भव सम्भवे व्यभिचारबाधादावव्याप्तिदानमनुचितमिव्यत आहोभयेति । अनुमिति-तस्कारणोभयप्रतिबन्धको भूतयथार्थज्ञानविषयपक्षतावच्छेदकाभाववत्पक्ष रूपपक्षान सिद्ध्यादावेवेत्यर्थः । आदिपदात् साध्यतावच्छेदकाभाववत्साध्यरूपसाध्याप्रसिद्धि परिग्रहः । तादृशेति । तादृशविषयताश्रयग्रहत्वव्यापक प्रतिबध्यतानिरूपितप्रतिबन्धकताशालियथार्थज्ञानविषयत्वस्य सत्त्वादित्यर्थः । तादृशमहत्व व्यापक प्रतिबध्यतातस्य लक्षणार्थत्वे पूर्वोक्तक्रमेण व्यभिचारबाधादावव्याप्तिरेव नत्वसम्भवः, काञ्चनमयपर्वतः काञ्चनमयवह्निमान् धूमादित्यादौ काञ्चनमयत्वाभाववत्पर्वतरूपाश्रयासिद्धौ काञ्चनमयत्वाभाववद्वह्निरूपसाध्याप्रसिद्धौ च लक्षणसमन्वयसम्भवात् अनुमितौ अनुमितिकारणीभूसे परामर्शेऽपि सत्त्वेन यथोक्तनिश्चयप्रतिबध्यतायां तादृशविषयताश्रयग्रहत्व व्यापकत्वस्याक्षतत्वात्, अनुमितेः परामर्शस्य च पक्षतावच्छेदकविशिष्टपक्षादिविषयकत्वादिति भावः । निरुकाश्रयासिद्ध्यादिनिश्चयप्रतिबध्यताया अतः = पर्वतो वह्निमान् धूमादित्यादौ वह्न्यभावविशिष्टहदा देर्दोषताप्रसंगतः । * कलाविलासः प्रामाण्यज्ञानानास्कन्दित वह्निव्याप्यधूमवत्तानिश्चयरूपकारणविरहेण व्यभिचारः स्यादतः पक्षसाध्यविषयितायाः कार्यतावच्छेदककोटौ निवेशनीयतया असम्भवानवकाशात् यद्यदप्रामाण्यज्ञानव्यक्तिसत्त्वे परामर्शसत्त्वेऽनुमितिर्न जायते तत्तदप्रामाण्यज्ञानस्योत्तेजकताया विवक्षणे महागौरवं स्यादित्यास्तां विस्तरः । कल्पान्तरमाहेति । ननु स्वावच्छेदकत्व - स्वनिरूपित कारणतावच्छेदकत्वा "Aho Shrutgyanam"
SR No.009530
Book TitleSamanyanirukti Chandrakala kalavilas Tika
Original Sutra AuthorN/A
AuthorVamacharan Bhattacharya
PublisherSadhubela Ashram Bhadaini
Publication Year
Total Pages308
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy