SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ २६ अनुमानगादाधर्यां सामान्यनिरुक्तिचिन्तामणिप्रकरणम् * गादाधरी ध्यतानवच्छेदकतया तदवच्छिन्नप्रतिबध्यतानिरूपित प्रतिबन्धकतानिवेशाऽसम्भवात् । तथाविधमहत्वव्यापक प्रतिबध्यता निवेशे चाऽनुमित्यविरोधिनि व्यभिचारादौ परामर्शाविरोधिनि बाधादौ चाडव्याप्तिः, * चन्द्रकला शालियथार्थज्ञानविषयत्वस्य लक्षणार्थत्वविवक्षणे निरुक्तातिव्याप्तिवारणेऽपि सर्वत्राऽसम्भवः स्यात्, तदभावनिश्चयनिरूपित प्रतिबध्यतायाः बुद्धित्वावच्छिन्नतया कस्यापि बाधव्यभिचारादेर्निश्चयस्य प्रतिबध्यतायाः तत्प्रकारक तादृशग्रहत्वावच्छिन्नत्वाऽसम्भवात् तादृशग्रहत्वावच्छिन्नप्रतिबध्यतानिरूपितप्रतिबन्धकताशालियथार्थज्ञानविषयत्वस्य कुत्रापि दोषादावुपपादयितुमशक्यस्वादिति भावः । } तदवच्छिन्नेति तादृशग्रहत्वावच्छिन्नार्थकम् । तथाच पर्वतो वह्निमान्धूमादित्यादौ वहन्यभावविशिष्टहृदादेर्दोषताप्रसंगोऽस्तीति हृदयम् । ननु तथापि नेयमतिव्याप्तिः प्रकृतपक्षसाध्य हे तुकानुमितित्वावच्छिन्नकार्यता प्रत्यक्ष जनक प्रत्यक्षविषयताश्रयग्रहस्वव्यापक प्रतिबध्यतानिरूपितप्रतिबन्धक ताशालियथार्थज्ञानविषयत्वस्य लक्षणार्थस्वविवक्षणात् । तादृशविषयताश्रयग्रहस्वस्य समूहालम्बनानात्मिकार्या केवलपर्वतो वह्निमानित्याकारिकायामनुमितावपि वर्त्तमानतया तत्र वह्न्यभावच दहद निश्चयप्रतिबध्यताया विरहेण वह्न्यभाववद्हृदनिश्चयप्रतिबध्यतायास्तादृशग्रहत्वाऽव्यापकत्वात् यन्निश्चयप्रतिबध्यत्वं तादृशग्रहत्वव्यापकं तन्निश्चयविषयस्यैव दोषत्वादित्याह तथाविधेति । प्रकृतानुमितिनिष्टकार्यताप्रत्यक्षजनकप्रत्यक्षविषयताश्रयग्रहत्वार्थकम् । अनुमित्यविरोधिनि = केवलपक्षधर्मिकसाध्यप्रकारकाव्याप्त्याद्यविषयकानुमितिप्रतिबन्धकयथार्थज्ञानविष - यीभूते । व्यभिचारादाविति । आदिना विरोधादिपरिग्रहः । परामर्शेति । साध्यवत्पक्षाद्यविषयक परामर्शप्रतिबन्धकतानवच्छेदकविषयताश्रयीभूते इत्यर्थः । बाधादाविति । आदिना सत्प्रतिपक्षादिपरिग्रहः । अव्याप्तिरिति । तथाच तादृशप्रत्यक्षविषयताश्रयग्रहत्वस्य केवलपक्षविशेष्यकसाध्यप्रकार कानुमितावपि सत्वेन तत्र साध्याभाववद्वृत्तित्वविशिष्ट* कलाविलासः मितित्वस्य कार्यतावच्छेदकत्वाऽप्रसिद्धया लक्षणमिदमसम्भवीति चेन्न, यत्र प्रथमं भाविज्ञानं धूमाभाववति धूमप्रकारकमित्यप्रामाण्यज्ञानं ततो वह्निव्याप्यधूमवान् घटव्याप्यपटवांश्च पर्वत इत्याकारकसमूहालम्बनपरामर्शस्ततो घटानुमितिस्ततो वह्नयनुमितिस्तत्र घटानुमितेरप्युक्तकार्यतावच्छेद काक्रान्ततथा तत्पूर्वम "Aho Shrutgyanam"
SR No.009530
Book TitleSamanyanirukti Chandrakala kalavilas Tika
Original Sutra AuthorN/A
AuthorVamacharan Bhattacharya
PublisherSadhubela Ashram Bhadaini
Publication Year
Total Pages308
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy