________________
चन्द्रकला-कलाविलासाख्यटीकाद्वयालंकृतम २५
ॐ गादाधरी दोषताप्रसङ्गः, प्रकृतानुमितिनिष्टकार्यतासम्बन्धिग्रहत्वस्य कस्यापि प्रतिब
* चन्द्रकला दोषताप्रसंग इनि। तथाच प्रकृतानुमितिनिष्टकार्यताप्रत्यक्षजनकप्रत्यक्षविषयता. अयग्रहनिष्टप्रतिवध्यतानिरूपित प्रतिबन्धकतावद्यथार्थज्ञानविषयस्वमितिलक्षणे । पर्वतो वह्निमान् धूमादित्यादौ वह्नयभावविशिष्टहदादावतिव्याप्तिः, पर्वतोवह्निमान् हृदश्च वह्निमानित्याकारकसमहालम्बनानुमितिनिष्टकार्यताप्रत्यक्षजनकप्रत्यक्षविषयताश्रयनिरुक्तसमूहालम्बनानु मितिनिष्ठप्रतिवद्ध्यतानिरूपितप्रतिबन्धकत्तावतो वहयभाववद्धदादिनिश्चयस्य विषयलाया वह्नयभाववद्धदादौ सत्त्वादिति भावः ।
ननु प्रकृतपक्षसाध्यहेतुकानुमितिनिष्ठकार्यताप्रत्यक्षजनकप्रत्यक्षविषयताश्रय - ग्रहत्वावच्छिन्न प्रतिबध्यतानिरूपितप्रतिबन्धकताशालियथार्थज्ञानविषयत्वस्य लक्षपार्थस्वे नोवातिव्याप्तिः, वह्नयभावन हदनिश्चयप्रतिबध्यताया हृदधर्मिकवह्निप्रकारकबुद्धित्वावच्छिन्नतया तादृशप्रत्यक्षविषयताश्रयग्रहत्वावच्छिन्नप्रतिबध्यतानिरूपितप्रतिबन्धकतायाः वन्हह्मभावविशिष्टहदनिश्चये विरहादित्याशंकतेप्रकृतेति ।
पक्षतावच्छेदकावच्छिन्नपक्षकसाध्यतावच्छेदकावच्छिन्नसाध्यकहेतुतावच्छेदकावच्छिन्न हेतुकानुमितित्वावच्छिन्नकार्यताप्रत्यक्षजनकप्रत्यक्षविषयताश्रयमहत्व - स्येत्यर्थः। ___कस्यापीति । बाधादिनिश्चयस्येत्यर्थः । तथाच प्रकृतानुमितिनिष्ठकार्यताप्रत्यक्षजनकप्रत्यक्षविषयताश्रयग्रहत्वावच्छिन्नप्रतिबध्यतानिरूपितप्रतिबन्धकता
क कलाविलासः तथाच प्रकृतपक्षकप्रकृतसाध्यकप्रकृतहेतुकानुमितित्वावच्छिन्न कार्यतासम्बन्धविशिष्टग्रहनिष्ठप्रतिबध्यतानिरूपितप्रतिबन्धकताशालियथार्थज्ञानविषयत्वं लक्षणार्थः, बैशिष्टयं स्वविषयकसाक्षात्कारत्यव्यापकजन्यतानिरुपितजनकतावत्त्वसम्बन्धेन । जनकतावत्त्वञ्च स्ववृत्तित्वसम्बन्धेन, वृतित्वमपि स्वनिष्ठविषयतानिरूपकसाक्षात्कारत्वव्यापकत्वसम्बन्धेन ।
न च हेतुतावच्छेदकावच्छिन्नपरामर्शाव्यवहितोत्तरजायमानत्वार्थकप्रकृतहेतुकत्वदलप्रवेशो निरर्थक इति वाच्यम् , तथा सति पर्वतो वह्निमान् धूमादित्यादौ घलयभाववत्तिद्रव्येऽतिव्याप्त्यापत्तेरिति ध्येयम् । ___ अथ धमालोकादिपरामर्शानां प्रत्येकजन्यानुमितौ व्यभिचारवारणाय तत्तत्परामर्शाव्यवहितोत्तरत्वस्य कार्यतावच्छेदककोटौ निवेशनीयतया तत्तत्परामर्शाव्यवहितोत्तरत्त्वावच्छिन्नं प्रत्येव तत्तत्परामर्शत्वेन कारणत्वसम्भवे प्रकृतपक्षसाध्यकानु
"Aho Shrutgyanam"