________________
1101
२४ अनुमानगादाधर्या सामान्यनिरुक्तिचिन्तामणिप्रकरणम्
* गादाधरी* अत्र पर्वतो वह्निमान् हृदश्च तथेत्यातिसमहालम्बनानुमित्यादिविरोधिहनिष्ठवह्नयभावादिरूपबाधादेः पर्वतादौ धूमादिना वह्नयादिसाधने
* चन्द्रकला 8 तथा=वह्निमान् । इत्यादीति । इत्याद्याकारकसमूहालम्बनानुमितिप्रतिबन्धकयथार्थज्ञानविषयीभूतहदनिष्ठवह्नयभावादिरूपहदपक्षकवह्विसाध्यकस्थलीय बाधादेरित्यर्थः । आदिना हृदादिनिष्ठवढ्यभाव व्याप्यादिरूपसत्प्रतिपक्षपरिग्रहः । पर्वतादाविति । आदिपदात् महानसादिपरिग्रहः । धूमादिनेति । आदिनेन्धनादिपरिग्रहः। वह्वयादिसाधने = वह्वयाद्यनुमितौ। आदिना आलोकपरिग्रहः ।
* कलाविलासः वस्तुतस्तु धर्मसम्बन्धसाधारणकावच्छेदकत्वविरहेण कार्यताविषयकत्वनिष्ठधर्मविधया यदवच्छेदकत्वं तन्निरूपितजन्यतानिरूपितजनकतानिरूपितं यद् धर्मविधयावच्छेदकत्वं तदाश्रयविषयताश्रयग्रहघटितलक्षणार्थनिर्वचने यादृशस्थलविशेषे तद्वयक्तित्वेन प्रतियोगिसाक्षात्कारस्त व्यक्तित्वेनानुयोगिसाक्षात्कारश्च प्रमात्मक एव भवति, तदनन्तरं कार्यतासाक्षात्कारोऽपि तादृशप्रमात्मक एव जायते, तादृशस्थल. विशेषे लाधवाद् विषयितासम्बन्धेन तद्वयक्तिविशिष्टसाक्षात्कारं प्रति विषयितासम्बन्धेन तद्वयक्तिविशिष्टसाक्षात्कारत्वेनैव कारणत्वं वाच्यम् , एवञ्च कार्यताविषय. कत्वस्य ताहशस्थले धर्मविधया अवच्छेदकत्वविरहेणाऽव्याप्तिः स्यादतस्तादृशकार्यताविषयकसाक्षात्कारत्वव्यापकजन्यतानिरूपितजनकत्वं यद्विषयकसाक्षात्कारत्वव्यापकं तत्त्वमर्थो वक्तव्यस्तथाच साक्षात्कारत्वपर्यन्तानुक्तो कार्यताविषयकत्वादेरनुमितिशाब्दबोधादौ सत्वादसम्भवः स्यादिति ध्येयम् ।
नच कार्यताप्रतियोगित्वानुयोगित्वान्यतरवद्ग्रहनिष्ठप्रतिबध्यतानिवेशेनैवोपपत्तौ साक्षात्कारपदद्वयघटितलक्षणार्थाभिधानमसंगतमिति वाच्यम् , अन्यतरत्वस्य भेदद्वयावच्छिन्नप्रतियोगिताकभेदरूपतया लाघवानवकाशात् ।
नच भवन्मते जन्यत्वजनकत्वयोः प्रवेशात् ततो गौरवमिति वाच्यम् , तयोः स्वरूपसम्बन्धरूपत्वाभ्युपगमात् ।
नच जन्यत्वजनकतावच्छेदकत्वयोरनतिरिक्तवृत्चित्वरूपताया आवश्यकतया भवन्मते लाघवानवकाश इति वाच्यम् , व्यवहारं प्रति व्यवहर्तव्यज्ञानस्य कारणत्वेन दोषव्यवहारे निरुत्त लक्षशज्ञानस्य कारणताया वारयितुमशक्यतया तादृशान्यतरत्यघटकभेदयोर्विशेष्यविशेषणभावे विनिगमनाविरहेण गुरुतरकार्यकारणभावद्वयापत्तेः। . एतेन स्वनिरूपितकारणत्व-स्वरूपान्यतरसम्बन्धेन कार्यताविशिष्टय हनिष्ठप्रतिअध्यतैव लाघवान्निवेशनीयेति पूर्वपक्षोऽपि निरस्त इति ध्येयम् ।
"Aho Shrutgyanam"