________________
चन्द्रकला-कलाविलासाख्यटीकाद्वयालंकृतम् २३
* गादाधरी तत्साक्षात्कारजनकसाक्षात्कारविषयतात्मकनिरूपकत्वस्य लाभाय ।
चन्द्रकला तत्साक्षात्कारेति। कार्यतारूपसम्बन्धसाक्षात्कारजनकीभूतो योऽनुमितिसाक्षात्कारः परामर्शसाक्षात्कारश्च तद्विषयतात्मकनिरूपकत्वस्य लाभायेत्यर्थः । सम्बन्धसाक्षात्कार प्रति प्रतियोग्यनुयोगिरूपसम्बन्धिद्वयसाक्षात्कारो हेतुः, भूतलप्रत्यक्षं घटप्रत्यक्षश्च विना भूतलघटयोः संयोगस्य प्रत्यक्षानुदयात्, एवञ्च प्रकृतपक्षसाध्यकानुमितिनिष्ठकार्यतारूपसम्बन्धसाक्षात्कार प्रत्यापि तादृशकार्यतासम्बन्धप्रतियोगिपरामर्श प्रत्यक्षस्य तादृशसम्बन्धानुयोग्यनुमितिप्रत्यक्षस्य प्रकृतपरामर्शवानहं प्रकृतानुमिति. माँश्चाहमित्याकारकस्य जनकतया ताशकार्यतासम्बन्धप्रत्यक्षजनकीभूतनिरुक्तसम्बन्धिप्रत्यक्षविषयताया अनुमितौ परामर्श च सरवात प्रकृतपक्षसाध्यहेतुकानुमितित्वावच्छिन्नकार्यताप्रत्यक्षजनकप्रत्यक्षविषयताश्रयग्रहनिष्ठप्रतिबध्यतानिरूपित - प्रतिबन्धकताशालियथार्थज्ञानविषयस्वं हेत्वाभासत्वमित्यस्यैव लक्षणार्थस्य पर्यवसिततया न बाधादौ न वा व्यभिचारादावव्याप्तिरिति तु परमार्थः।।
ननु अनुमितिपदस्याऽजहत्स्वार्थलक्षणया प्रकृतानुमितितत्कारणोभयपरत्वे प्रकृतानुमितिनिष्ठकार्यताप्रत्यक्षजनकप्रत्यक्षविषयताश्रयग्रहनिष्टप्रतिवध्यतानिरूपितप्रतिबन्धकताशालियथार्थज्ञानविषयत्वस्यैव लक्षणार्थतया सर्वत्र लक्षणसमन्वयसम्भवादच्याप्त्याचसम्भवे साध्यव्याप्येत्यादिनानुमितिपदस्य प्रकृतपक्षविशेप्यकप्रकृतसाध्यप्रकारकप्रकृतसाध्यव्याप्यहेतुप्रकारकसमूहालम्बनानुमितिपरत्वाभिधानं दीधितिकृतामनुचितमित्यतः पर्यवसितनिरुक्तलक्षणेऽतिव्याप्तिरूपदोषमाहावेति । अनुमितिनिष्टकार्यताप्रत्यक्षजनकप्रत्यक्षविषयताश्रयमहनिष्टप्रतिबध्यतानिरूपितप्रतिबन्धकताशालियथार्थज्ञानविषयत्वार्थकप्रथमलक्षण इत्यर्थः।
* कलाविलासः स्तजनको यः कार्यत्वव्याप्यघटवद्भूतलविषयकज्ञानवती तादृशानुमितिरित्याकारकालौकिकसाक्षात्कारात्मक: परामर्शस्तद्विषयघटवद्भूतलज्ञाननिष्ठप्रतिबध्यतानिरूपितप्रतिबन्धकताशालि यद् घटाभाववद्भूतलमिति यथार्थज्ञानं तद्विषये घटाभाववद्भूतलेऽतिप्रसंगः स्यात् ।। __यद्पावच्छिन्नविषयताशालिसाक्षात्कारत्वव्यापिका निरुतजनकता तद्रूपाश्रयग्रहनि
प्रतिबध्यतेत्यादिनिवेशेऽपि पर्वतो वह्निमान् इत्यनुमितिः परामर्शकार्या तादृशानुमित्यनुयोगिककालिकसम्बन्धेन घटवद्भूतलविषयकज्ञानादित्यनुमितिमादाय तद्दोषो बोध्या, यद्रूपपदेन पक्षवृत्तिसाध्यव्याप्य हेतुतावच्छेदकधर्मस्य धर्तुं शक्यतया तादृशानुमिति. वृत्तिपरामर्शकार्यताव्याप्यघटवद्भूतलज्ञानत्वावच्छिन्नसाक्षात्कारत्वव्यापकताया निरुक्तकार्यताविषयकानुमितिजनकतायां सत्त्वात् ।
"Aho Shrutgyanam"