________________
२२ अनुमानगादाधर्या सामान्यनिरुक्तिचिन्तामणिप्रकरणम्
गादाधरी निरूपकत्वं चाऽत्र यदि प्रतियोगित्वं, तदा कार्यस्य कार्यताप्रतियोगित्वाभावादनुमित्यसंग्रहः, अतः सम्बन्धिपदं सम्बन्धिद्वयसाधारणस्य
ॐ चन्द्रकला निरूपकत्वमित्यादि । प्रकृतपक्षसाध्यहेतुकानुमितित्वावच्छिन्न कार्यतानिरूपकसम्बन्धित्वेने त्यत्र निरूपकत्वं च यदीत्यर्थः। कार्यस्य = प्रकृतानुमितिरूपकार्यस्य । कार्यतेति । कार्यताप्रतियोगिरवस्य प्रकृतानुमितिकारणीभूतपरामर्श एवं वर्तमानस्वादिस्याशयः । अनुमित्यसंग्रह इति । तथाच प्रकृतपक्षसाध्यहेतुकानुमितेस्तादृशानुमितिनिष्टकार्यतानिरूपकप्रतियोगिस्वरूपसम्बन्धवत्त्वेनोपादाना ऽ सम्भवाद् बाधसत्प्रतिपक्षादावव्याप्तिः; बाधादिनिश्चयस्य तादृशकार्यताप्रतियोगिपरामर्शाप्रतिबन्धकत्वात्, तस्य प्रकृतपक्षसाध्यकानुमितिं प्रत्येव प्रतिबन्धकत्वादिति भावः। ___ भतः = कार्यतानिरूपकसम्बन्धवत्वेन प्रकृतानुमितेरसंग्रहतः। सम्बन्धिपदमिति । निरूपकपर्यन्तोपादानेनोपपत्तावित्यादिः । सम्बन्धीति । कार्यतारूपसम्बन्धस्य सम्बन्धि यत् प्रकृतानुमिति-तत्कारणपरामर्शद्वयम् , तत्र वर्तमानस्येत्यर्थः ।
कलाविलासः * वस्तुतस्तु तद्धेतुकानुमितौ तद्धेतुकव्यभिचारज्ञानाभावस्य प्राचीनमते कारणतया व्यभिचारसंग्रहायैव तदुपादानम् , नव्यमते च तादृशकार्यकारणभावे मानाभावेन तन्मताभिप्रायेणैव व्यभिचारादावव्याप्तिरित्युक्तं भट्टाचार्येणेति संक्षेपः।
अतः सम्बन्धिपदमित्यादि। अत्र कल्पे द्वितीयसाक्षात्कारपदाऽनुपादाने प्रकृतानुमितिनिष्ठकार्यतासाक्षात्कारजनकीभूतं यत् तद्विषयताश्रयग्रहनिष्ठप्रतिबध्यतानिरूपितप्रतिबन्धकताशालियथार्थज्ञान विषयत्वविवक्षणे यादृशस्थले पर्वतः वह्निमानित्याकारकानुमितित्वेन घटवद्भुतलावगाहिज्ञानस्य साक्षात्कारो जातस्तादृशस्थले निरुक्तभ्रमात्मकसाक्षात्कारस्यापि प्रकृतानुमितिनिष्ठकार्यतासाक्षात्कारजनकतया तद्विषयघटवद्भूतलज्ञाननिष्ठप्रतिमध्यतानिरूपितप्रतिबन्धक्ताशालियथार्थज्ञानविषये घटाभाववद्भूतलेऽतिव्याप्तिः। तदुपादाने तु यद्रूपावच्छिन्नविषयताशालिसाक्षात्कारत्वव्यापकं निरुक्तानुमितिनिष्ठकार्यतासाक्षात्कारजनकत्वं तद्रूपाश्रयग्रहनिष्टप्रतिबध्यतेत्यादिनिवेशान्न दोषः, पर्वतो वह्निमानित्याकारकानुमितित्वाश्रयानुमितिप्रतिबन्धकयथार्थज्ञानविषयस्याप्रसिद्धत्वात् ।
एवञ्च यदि प्रथमसाक्षात्कारपदं न दीयते तदा पर्वतपक्षकवह्निसाध्यकधूम. हेतुकानुमितिः प्रकृतपक्षकप्रकृतसाध्यकप्रकृतहेतुकानुमितित्वावच्छिन्नकार्यतावती घटवद्भूतलविषयकज्ञानात् इत्याकारिका या कार्यताविषयकानुमिति.
"Aho Shrutgyanam"