________________
चन्द्रकला-कलाविलासाख्यटीकाद्वयालंकृतम् २१
* दीधितिः * तत्राऽनुमितिपदम् अनुमितिनिष्ठकायतानिरूपकसम्बन्धित्वेनाऽनुमिति-तत्कारणशानपरम् ।
* गादाधरी के अनुमितिपदमजहत्स्वार्थलक्षणया तदुभयपरतया व्याचष्टे-तत्रेति । तादृशलक्षणवाक्य इत्यर्थः । लक्षणाघटकतावच्छेदकमुभयसाधारण. मनुगतरूपमाह अनुमितिनिष्ठकार्यतानिरूपकसम्बन्धित्वेनेति । अनुमितिपदस्य प्रकृतपक्षतावच्छेदकविशिष्ट प्रकृतसाध्यतावच्छेदकावछिन्नप्रकारकप्रकृतहेतुतावच्छेदकावच्छिन्नहेतुकानुमितिपरत्वं स्वयमेव दर्शायष्यति, अतो न वक्ष्यमाणाऽतिप्रसङ्गः।
चन्द्रकला निरुक्ताव्याप्त्यादिदोषतः। अनुमितिपदमिति । लक्षणघटकीभूतेत्यादिः । अजहतस्वार्थेति। अपरित्यक्तानुमितिपदार्थलक्षणयेत्यर्थः । तदुभयपरतया - प्रकृतपक्षसाध्यहेतुकानुमितितत्कारणपरामर्शोभयपरतया । व्याचष्ट इति। तथाच यथा काकेभ्यो दधि रक्ष्यतामित्यादौ सर्वतो दधिरक्षाया आवश्यकत्वात् दध्युपधाव. कत्वेन रूपेण काकपदं काकाकाके लाक्षणिकं तथाऽत्राप्यनुमितिपदं प्रकृतपक्षसाध्यकानुमितिनिष्ठकार्यतानिरूपकसम्बन्धवत्वेन रूपेण तादृशानुमिति-तत्कारणपरामशोभयस्मिन् लाक्षणिकमेव, तथा सति न बाधादौ नवा व्यभिचारादावव्याप्तिः, बाधादिनिश्चयस्य प्रकृतपक्षसाध्यकानुमितौ व्यभिचारादिनिश्चयस्य च निरुक्तानुमितिकारणीभूतपरामर्शप्रतिबन्धकतया तादृशनिश्चयविषयत्वस्य बाधादौ सत्त्वादिति भावः।
तादृशलक्षणेति । अनुमितिकारणीभूताभावप्रतियोगियथार्थज्ञानविषयत्वमित्याकारकलक्षणवाक्य इत्यर्थः । येन रूपेण लक्षणा भवति तद्रूपं लक्षणाघटकतावच्छेदकमित्याह लक्षणेति । उभयसाधारणम् - प्रकृतानुमितितत्कारणपरामर्शोभयस्मिन् वर्तमानम् । अनुगतरूपम् = अनुगतं धर्ममाह दीधितिकार इति शेषः ।
अनुमितीति। प्रथमलक्षणादिघटकीभूतेत्यादिः । स्वयमेव = दीधितिकारः एव । वक्ष्यमाणेति । पर्वतो वह्निमान् धूमादित्यादौ वह्नयभावविशिष्टहृदे वक्ष्यमाणातिव्याप्तिरित्यर्थः। निरुक्तानुमितिसामान्यप्रतिबन्धकयथार्थज्ञानविवक्षया न वक्ष्यमाणातिव्याप्तिः सम्भवतीति हृदयम्।
* कलाविलासः लम्बनानुमितेरेवोत्पादात् तादृश हेतुप्रकारकनिश्चयोचरानुमितिपदेन महानसीयवलथनुमितेरपि धत्तुं शक्यतया तद्विरोधित्वक्ष्य निरूक्तबाधे सत्त्वान्नाव्याप्तिः।
"Aho Shrutgyanam"