________________
२० अनुमानगादाधर्यां सामान्यनिरुक्तिचिन्तामणिप्रकरणम्
* गादाधरी तथाच व्यभिचारादांवव्याप्तिः, बहिधूमव्यभिचारीतिज्ञानाभावस्य पर्वतः धूमवानित्यनुमित्यजनकत्वात् , लक्षणया तस्य तादृशानुमितिजनकज्ञानमात्रपरत्वे च बाधादावव्याप्तिः, बाधादिज्ञानस्य परामर्शाऽप्रतिबन्धकत्वादतः
* चन्द्रकला परत्वेऽपि न निस्तार इत्याह तथाचेति । अनुमितिपदस्य प्रकृतपक्षसाध्य हेतु. कानुमितिपरत्वेऽपि चेत्यर्थः। व्यभिचारादाविति । आदिपदात् विरोधादिपरिग्रहः । अव्याप्ती हेतुमाह वह्निरिति । वहिणूंमाभावाधिकरणवृत्तितावानित्या. दिनिश्चयाभावस्येत्यर्थः। . अनुमित्यजनकत्वादिति । तथाच पर्वतो धूमवान् वढेरित्यादौ धूमाभाववत्तित्वविशिष्टवह्निरूपव्यभिचारेऽव्याप्तिः स्यात यद्यनुमितिपदं प्रकृतपक्षसाध्यहेतुकानुमितिपरं स्यात् , तत्प्रकारकबुद्धौ तदभावनिश्चयस्यैव प्रतिबन्धकतया धूमाभावववृत्तित्वविशिष्टवाहिनिश्चयस्य धूमाभाववदवृत्तिवह्निरूपव्याप्तिज्ञानप्रति. बन्धकताया आवश्यकतया प्रकृतपक्षीभूतपर्वतधर्मिकधूमानुमित्यप्रतिबन्धकत्वात् निरुक्तव्यभिचारनिश्चयाभावस्य यथाविवक्षितानुमितिकारणीभूताभावपदेन धा. मशक्यत्वादितिभावः। __ ननु अत्रानुमितिपदं प्रकृतपक्षसाध्यकानुमितिकारणीभूतपरामर्श लाक्षणिकमेघेति न व्यभिचारादावव्याप्तिः । पर्वतो धूमवान् वढेरित्यादौ तादृशानुमितिकारणीभूते धूमाभाववदवृत्तित्वविशिष्टंवह्निमान् पर्वत इत्याकारकपरामर्शे धूमाभावववृत्तित्वविशिष्टवह्निरूपन्यभिचारनिश्चयस्य तदभावप्रकारकनिश्चयमुद्रया प्रतिबन्धकत्वेन निरुक्तव्यभिचारज्ञानाभावस्य अनुमितिपदार्थीभूतयथोक्तपरामर्श प्रति जनकत्वसम्भवादित्यत आह लक्षणयेति । प्रकृतपक्षोद्देश्यकप्रकृतसाध्यविधेयकनिश्चये अनुमितिपदस्य शक्ततया लक्षणयेत्युक्तमितिध्येयम् । ___ तस्य = निरुक्तलक्षणघटकीभूतानुमितिपदस्य । तादृशेति । प्रकृतपक्षसाध्यहेतुकानुमितिकारणपरामर्शमात्र परत्वे इत्यर्थः । मात्रपदात् तस्य प्रकृतपक्षसाध्यकानुमितिपरत्वम्यवच्छेदः । बाधादाविति । आदिना सत्प्रतिपक्षपरिग्रहः । अव्याप्तिमुपपादयति बाधादीति । बाधादिनिश्चयात्मकयथार्थज्ञानस्येत्यर्थः । __परामर्शाऽप्रतिबन्धकत्वादिति । हृदो वह्निमान् धूमादित्यादौ वह्नयभावविशिष्टहदरूपबाधनिश्चयस्य हृदधर्मिकवह्निप्रकारकबुद्धावेव प्रतिबन्धकतया हृदर्मिकवह्नयनुमितिकारणीभूतवह्निव्याप्यधूमवानहद इत्याकारकपरामर्श प्रति ग्राह्याभावानवगाहित्वेनाप्रतिबन्धकस्वात् तादृशबाधादिनिश्चयस्य अनुमितिप्रतिबन्धकयथाथज्ञानत्वेनोपादानाऽसम्भवादिति भावः ।
अतः =
"Aho Shrutgyanam"