________________
चन्द्रकला-कलाविलासाख्यटीकाद्वयालंकृतम्
गादाधरी अनुमितिपदस्याऽनुमितिसामान्यपरत्वेऽसम्भवात् , यत्किश्चिदनुमितिपरत्वेऽतिप्रंसङ्गात् प्रकृतपक्षसाध्यहेतुकाऽनुमितिपरत्वमावश्यकम ,
चन्द्रकला * समन्वयसम्भवादसम्भवाभावेऽपि पर्वतो वह्निमान् धूमादित्यादौ वह्नयभावविशिष्टहदादावतिच्याक्षिः स्यात् यकिञ्चिदनुमितिपदेन तत्र हृदधर्मिकवह्नयाद्यनुमितिमादाय तत्प्रतिबन्धकयथार्थज्ञानविषयताया वह्वयभावविशिष्टहृदादौ सत्त्वादिस्यकामेनापि तादृशानुमितिपदं प्रकृतहेतुप्रकारकनिश्चयोत्तरजायमानप्रकृतपक्षकप्रकृतसाध्यकानुमितिपरमवश्यं वक्तव्यं, तथासति नासम्भवो न वातिव्याप्तिः । प्रकृतपक्षीभूतहदादिधर्मिकवयाचनुमितौ वलयभाववद्धदादिनिश्चयस्य प्रतिबन्धकत्वात् तथाविधपर्वतादिधर्मिकवह्वयाद्यनुमितौ च साशनिश्चयस्याप्रतिबन्धकवादित्याहानुमितिपदस्येति । प्रकृतलक्षणघटकीभूतेत्यादिः ।
असम्भवादिति । घटपटाद्यनुमितिघटितयावदनुमितौ कस्यापि निश्चयस्याप्रतिबन्धकरवादिति भावः । अतिप्रसंगादिति । पर्वतादिपक्षकवयादिसाध्यकस्थले यत्किञ्चिद्धदो वह्निमानित्यनुमितिप्रतिबन्धकयथार्थज्ञानविषताया वह्नयभावविशिष्टहदादौ सत्वात् तस्य पर्वतपक्षकवह्वयादिसाध्यकधूमादिहेतुकस्थले दोषतापत्तिरित्याशयः ।
अनुमितिपदस्य प्रकृतहेतुतावच्छेदकावच्छिन्नहेतुप्रकारकनिश्चयोत्तरजायमानप्रकृतपक्षतावच्छेदकावच्छिमपक्षकप्रकृतसाध्पतावच्छेदकावच्छिन्नसाध्यकानुमिति -
* कलाविलास: * ननु अनुमितिप्रतिबन्धकतावच्छेदकविषयताश्रयत्वपर्यन्तनिवेशेऽपि उदासीनेतिव्याप्तिवारणमशक्यं वह्नयभावजलोभयवान् ह्रद इत्याकारकज्ञानीयोभयत्वावच्छिन्नप्रकारताया ऐक्येन हृदधर्मिकवह्नयभावस्वावच्छिन्नप्रकारतात्वेन प्रकृतानुमितिप्रतिबन्धकतावच्छेदकतया तदाश्रयत्वस्य जलादौ सत्त्वादिति चेन्न, तादृशातिव्याप्तिवारगाय प्रकृतानुमितिप्रतिबन्धकतावच्छेदकव्यासज्यवृत्तिधर्मानवच्छिन्नविषयताश्रयत्वस्यैव विवक्षणीयत्वादितिध्येयम् ।
प्रकृतपक्षसाध्य हेतुकानुमितिपरत्वमावश्यकमिति । अत्र प्रकृतहेतुकत्वनिवेशो निरर्थक इति तु नाशंकनीयम् , तदनुपादाने पर्वतो वह्निमान् महानसीयवहीतरवह्नयभाववत्पर्वतकालीनधूमादित्यादौ महानसीयवह्नयभाववत्पर्वतरूपबाधेऽव्याप्स्यापत्तेस्तादृशबाधनिश्चयस्य प्रकृतपक्षसाध्यकपर्वतधर्मिकवह्नयनुमिति प्रत्यप्रतिबन्धकत्वात् । तदुपादाने तु नियमत इतरबाधस्थले वह्निमहानसीयवह्निविषयकसमूहा.
"Aho Shrutgyanam"