________________
१८ अनुमानगादाधयाँ सामान्यनिरुक्तिचिन्तामणिप्रकरणम्
* गादाधरी * रित्यत आह तद्वत्त्वं चेति । तादृशदोषवत्त्वं चेत्यर्थः । दुष्टहेतूनां लक्षणमित्यनुषज्यते । स्फुटमिति शेषः । तथा च दुष्टहेतुनिरूपणस्य प्रकृतत्वेऽपि दोषलक्षणे कृते तद्वत्त्वरूपदुष्टहेतुलक्षणस्य स्फुटतया लाभेन दोषलक्षणाभिधानस्यं तत्र तात्पर्यान्नोक्तानुपपत्तिरिति भावः। तदभिप्रायेणैवेति । दुष्टहेतुलक्षणाभिप्रायेणैवेत्यर्थः।
* चन्द्रकला * तस्वे दोषलक्षणस्यैव वक्तव्यतया दुष्टलक्षणस्याप्रतिज्ञातरवेन दुष्टहेतुलक्षणानभिधानस्यौचित्ये दुष्टहेतूनां विभागानुपपत्त्याऽऽशंकाया अनवतारेण तेषां विभागोपपादनपरस्य उपधेयेत्यादिप्रन्थस्यासंगतिर्दुर्वा रेति भावः । तादृशेति । यथार्थज्ञाननिष्टप्रकृतानुमितिप्रतिबन्धकतावच्छेदकविषयताश्रयीभूतदोषवत्त्वमित्यर्थः । दुष्टलक्षणस्य स्फुटतां सूचयितुं भावमाह तथाचेति । अप्रकृतत्वेऽपि = अप्रतिज्ञातरवेऽपि । दुष्टहत्विति ! दोषवत्त्वरूपेत्यादिः । नोक्तेति । न दुष्टहेतूनां संकरेण विभागव्याघाताशंकानुपपत्तिनवा दुष्टहेतुविभागोपपादनपरस्योपेधेयसंकरेत्यादि. ग्रन्थस्य संगत्यनुपपत्तिरिति भावः ।
उपधेयेत्यादिग्रन्थस्तु दुष्ट लक्षणाभिप्रायक एवेति दृढ़ीकत माह दुष्टहेतलक्षणेति । दोषवत्त्वं दुष्टत्वमित्याकारकदुष्टलक्षणेच्छयैवेत्यर्थः।।
__ "अनुमितिकारणीभूताभावप्रतियोगियथार्थज्ञानविषयत्व" मैतल्लक्षणघटकानु मितिपदं यदि अनुमितिसामान्यपरं तदा अनुमितित्वव्यापककार्यतानिरूपितकारणतावान् योऽभावस्तत्प्रतियोगियथार्थज्ञानविषयत्वं, यथार्थज्ञाननिष्टा या अनुमितित्वव्यापकप्रतिबध्यतानिरूपिता प्रतिबन्धकता तदवच्छेदकविषयताश्रयत्वं वा हेत्वाभासत्वमित्यस्यैव प्रथमलक्षणार्थतायाः पर्यवसिततया असम्भवापत्तः, हृदादिपक्षकवयादिसाध्यकस्थले वह्नयाद्यभावविशिष्टहृदादिनिश्चयात्मकयथार्थज्ञानाभावकार्यताया निरुक्तनिश्चयप्रतिबध्यताया वा अनुमितिस्वाऽव्यापकत्वात् । अनुमितित्वस्य घटाधनुमितावपि सत्वेन तत्र तादृशनिश्चयप्रतिबध्यताविरहात् । यादृशयथार्थज्ञानप्रतिवध्यता अनुमितित्वव्यापिका तादृशयथार्थज्ञानविषयस्यैत्र हेत्वाभासतायाः पर्यवसितत्वात् । __यदि च तादृशानुमितिपदं यत्किञ्चिदनुमितिपरं, तदा यथार्थज्ञाननिष्ठा या यकिञ्चिदनुमितिव्यक्तिनिष्ठप्रतिबध्यतानिरूपिता प्रतिबन्धकता तदवच्छेदकविषयताश्रयत्वस्य लक्षणार्थतया हृदविशेष्यक-वह्निसाध्यकानुमितेरेव यकिञ्चिदनुमितिपदेन धत्तुं शक्यत्वेन तादृशानुमितिप्रतिबन्धकीभूतवहन्यभावविशिष्टहदादिनिश्चयविषयत्वमादाय हृदादौ वयादिसाध्यकस्थले लक्षण.
"Aho Shrutgyanam"