________________
१७
चन्द्रकला-कलाविलासाख्यटीकाद्वयालंकृतम्
...* गादाधरी प्रतिज्ञातत्वे तदसङ्गन्तेः, एवं दुष्टहेतुनिरूपणस्याऽप्रकृतत्वे दुष्टहेतूनां विभागानहतया तेषां सङ्कण विभागव्याघातशङ्काया अनवतारात् , उपधेयसङ्करेऽपीत्यादिग्रन्थस्य उपाध्यसङ्करेण विभागोपपादनपरस्याऽसङ्गति
ॐ चन्द्रकला 8 धर्मिणः प्रतिपादनस्य करणात् । दुष्टेति। दुष्टहेतुविषयकज्ञानानुकूलव्यापारस्येत्यर्थः । अप्रतिज्ञातस्वे = अव्यवहितोत्तरकालकर्तव्यत्वप्रकारकशिष्यसमवेतबोधानुकूलच्यापारविषयत्वाभावे । तदसंगतेरिति । यनिरूपणं प्रतिज्ञातं भवति तस्यैव विभाग इतिनियमात् दोषनिरूपणस्य प्रतिज्ञातत्वे दुष्टहेतूनां विभागोन सम्भवतीति हृदयम्।
दुष्टहेतुनिरूपणस्याप्रतिज्ञातत्वे दोषान्तरमाया है वमिति । अप्रकृतत्वे - अप्रतिज्ञातस्ये । दोषनिरूपणस्यैव प्रतिज्ञातत्वे इति शेषः। विभागेति = विभागविषयस्वाभावेनेत्यर्थः । दुष्टहेतुनिरूपणस्याप्रतिज्ञातस्वादितिभावः ।
तेषाम् = दुष्टहेतूनाम्। संकरेण- अभिन्नत्वेन । विभागेति सामान्यधर्मावच्छिसानां दुष्टहेतूनां परस्परविरुद्धच्याप्यधर्मेण धर्मिप्रतिपरयनुकूलव्यापारस्य यः व्याधातोऽसम्भवस्तच्छङ्काया इत्यर्थः । अनवतारादिति । अयं वलिमान जलत्यादित्यादौ वह्नयभावववृत्तित्वविशिष्टस्य व्यभिचारिणो हेतोर्वयधिकरणमृत्तित्वाभावविशिष्टतया विरुद्धत्वेन व्यभिचारिविरुद्धयोर्भेदाभावात् व्यभिचारित्वविरुद्धत्वयोरेकत्रं समावेशेन दुष्टहेतूनां विभाग एव न सम्भवति, मिथो विरुद्धधर्मेण धर्मिप्रतिपादनस्यैव विभागस्यादित्याशंकावतारस्तु दुष्टहतुनिरूपणस्य प्रतिज्ञातत्वे एव सम्भवति नान्यथेत्याशयः ।
निरुक्तायाः शंकाया अनवतारे तत्समाधानपरोत्तरग्रन्थस्याप्यसंगतिरित्याहोपधेयेति। उपधेयस्य उपाधिरूपदोषविशिष्टस्य दुष्टहेतोः संकरेणाभिन्नत्वेनापि उपाधेः-दोषस्य असंकरात भिन्नत्वादित्यर्थपरस्य उपधेयसंकरेऽप्युपाधेरसंकरादिति मूलग्रन्थस्येत्यर्थः । उपाध्यसंकरात् = उपाधेोषस्य भिन्नत्वात् । विभागेति । विभागोपपादनबोधेच्छयोच्चरितस्येत्यर्थः । असंगतिरिति । दोषनिरूपणस्य प्रतिज्ञा
कलाविलासः * न च गन्धाभावच्याप्यपृथिवीत्वक्त्तादृशघटरूपसत्प्रतिपक्षनिश्चयीयपृथिवीस्वविषयतामादाय लक्षणसमन्वयसम्भव इति वाच्यम् , निरवच्छिन्नसाध्याभावाधिकरणता.. श्रयावृत्तित्वरूपाया गन्धाभावव्याप्तेः पृथिवीत्वहेतावप्रसिद्धतया सत्प्रतिपक्षनिश्चयस्य यथार्थत्वाऽसम्भवेन तादृशनिश्चयविषयत्वमादायापि तत्र लक्षणसमन्वयासम्भवात् । के चित्तु बाधेन दुष्ट इति व्यवहारानुपपत्तिरेवात्राव्याप्ति पदार्थ इत्याहुः ।
"Aho Shrutgyanam"