________________
अनुमानगादाधर्यां सामान्यनिरुक्तिप्रकरणम् ।
* गादाधरी * ननु हेतुवदाभासन्ते इति व्युत्पत्त्या हेत्वाभासपदस्य दुष्टहेतुपरत्वाद् दुष्टहेतुनिरूपणस्यैव प्रतिज्ञातत्वात्तल्लक्षणमेवाऽकाङ्क्षितम् , अतस्तदनुक्ती मूलस्य न्यूनता, अन्यविधव्युत्पत्त्या हेत्वाभासपदस्य हेतुदोषपरत्व. सम्भवेऽपि 'तेचे त्यादिना दुष्ट हेतूनामेव विभजनाद् दुष्टहेतुनिरूपणस्याऽ.
* चन्द्रकला दुष्टहेतूनामिति दीधितिग्रन्थमवतारयति ननु हेत्विति । व्याप्तिपक्षधर्मतादिमान हेतुः, वत्यर्थः सादृश्यम , तच्च व्यातिपक्षधर्मताद्यभाववन्निष्टं व्याप्तिपक्षधर्मस्वा. दिप्रकारतानिरूपितविशेष्यत्वम् , तस्य च आपूर्वकभासधात्वर्थविषयतायामभेदेनान्वयः, आख्यातार्थश्चाश्रयत्वम् , तथाच हेतुवदाभासन्ते' इति हेत्वाभासा इति व्युत्पत्त्या व्याप्तिपक्षधर्मत्वाद्यभाववन्निष्टं यत् व्याप्तिपक्षधर्मत्वादिप्रकारतानिरूपितविशेष्यत्वं तदभिन्न विषयताश्रयीभूता दुष्टहेतव इत्यस्यैव प्रत्येतव्यतया हेत्वाभास. शब्दस्य दुष्टहेतुपरस्वात् तल्लक्षणानभिधानेन मूलस्य न्यूनता स्यादिति भावः ।
दुष्टहेतुनिरूपणस्य = दुष्टहेतुविषयकज्ञानानुकूलच्यापारस्य । प्रतिज्ञातत्वात् = अव्यवहितोत्तरकालकर्तव्यत्वप्रकारकशिष्यसमवेतबोधानुकूलच्यापारविषयत्वात् । तल्लक्षणमपि = दुष्टलक्षणमपि । अपिना दुष्टविशेषणतयैव दोषलक्षणमाकाक्षितमिति सूचितम् । आकाक्षितम् = जिज्ञासितम् । तदनुक्तौ = दुष्टलक्षणानुक्तौ । मूलस्य = मूल ग्रन्थस्य । न्यूनता = दुष्टलक्षणाकथनानुमिताज्ञानवत्पुरुषोच्चरितता।
ननु हेतोराभासा हेत्वाभासा इति व्युत्पत्त्या, आभासपदस्य दोषरूपार्थे लक्षणां स्वीकृत्य हेत्वाभासशब्दस्य हेतुदोषार्थकत्वसम्भवात् हेतुदोषनिरूपणस्यैव प्रतिज्ञाततया तल्लक्षणाभिधानमेव युक्तं नतु दुष्टहेतुलक्षणाभिधानमित्यत आहान्यविधेति ।हेतोराभासा हेत्वाभासा इति व्युत्पत्त्येत्यर्थः । हेत्वाभासेति । हेत्वाभासशब्दस्येत्यर्थः। एतेन हेत्वाभाससमुदायस्य वाक्यतया तस्य पदत्याभिधानमयुक्तमित्याक्षेपो निरस्त इति ध्येयम् ।
हेतुदोषेति । हेतुदोषबोधेच्छयोच्चरितत्वसम्भवेऽपीत्यर्थः। ते चेत्यादिनेति । 'ते च सव्यभिचारविरुद्धसत्प्रतिपक्षासिद्धबाधिताः पञ्चेति ग्रन्थेनेत्यर्थः । दुष्टहेतूनामेवेति । सव्यभिचारविरुद्धादिशब्दस्य दोषविशिष्टहेतुपरत्वादित्याशयः । विभजनात् = विभागस्य हेत्वाभासस्वावच्छिन्नानां परस्परविरुद्धव्याप्यधर्मेण
* कलाविलास * भावववृत्तिद्रव्यत्वरूपव्यभिचारनिश्चयीयद्रव्यत्वविषयतामादाय तत्र तत्र हेतौ लक्षणसमन्वयसम्भवे सामान्यलक्षणे कथमव्याप्तिरभिहितेति चेन्न, उत्पत्तिकालीन। घटो गन्धवान् पृथिवीत्वादित्याद्यसंकीर्णबाधितपृथिवीत्वहेतावव्याप्तेरभिहितत्वात् .
"Aho Shrutgyanam