________________
चन्द्रकला-कलाविलासाख्यटीकाद्वयसमलङकृतम् ।
१५ दीधितिः यथाश्रुतमिदं हेतुदोषाणां लक्षणम् , तद्वत्त्वं च दुष्टहेतूनाम् , सदभिप्रायेणैव उपधेयसङ्करेऽपीत्यादि वक्ष्यति ।
गादाधरी बाधादिज्ञानप्रतिबन्धकतायां प्रायशो हेतुविषयताया अनवच्छेदकत्वात्तत्रत्यहेताकव्याप्तिश्च, यद्विषयकत्वेनेत्यादिलक्षणे च तृतीयाया अवच्छेदकस्वार्थकतया सुतरां तथेत्यत आह यथाश्रुतमिति । इदम्-~-एतल्लक्षणत्रयम् ।
* चन्द्रकला बाधादीति। आदिना सत्प्रतिपक्षपरिग्रहः। तथाच हृदादिपक्षकसहयादिसाध्यकधूमादिहेतु स्थले हृदो वह्नयभाववान् धूमश्चेत्याकारकसमूहालम्बननिश्चयनिष्टाया अपि प्रकृतानुमितिप्रतिबन्धकताया अवच्छेदकत्वस्य धूमादिविषयतायां विरहात् प्रकृतानुमितिप्रतिबन्धकतावच्छेदकविषयताश्रयत्वपर्यन्तस्य प्रथमलक्षणार्थत्वेऽपि बाधिते दुष्टधूमादिहेतावव्याप्तिरस्त्येवेति हृदयम् ।
हृदो वह्निमान् हृदादित्यादौ वह्वयभाववहृदनिश्चयनिष्टप्रकृतानुमितिप्रतिबन्धकतावच्छे कत्त्वस्थ हृदविषयतायां सत्त्वात् पक्षाघभिन्नहेतुकस्थलीयबाधितहृदादिदुष्टहेतौ रक्षणसमन्वयादाह प्रायश इति । हेविति । पक्षाद्यतिरिक्तत्यादिः । तत्रत्येति । यादृशस्थले बाधाज्ञाननिष्टानुमितिप्रतिबन्धकताबच्छेदिका हेतुविषयता न भवति तादृशस्थलीयहेतावव्याप्तिश्चेत्यर्थः।
लक्षणे = द्वितीयतृतीयलक्षणे, तृतीयायाः = तृतीयाविभक्तः, सुतरां तथा दोषेऽतिव्याक्षिः, बाधिते दुष्टेऽध्यातिश्च । तथाच यन्निष्टविषयता प्रकृतानुमितिप्रतिबन्धकतावच्छेदिका तत्त्वं हेत्वाभासत्वमित्यस्य द्वितीयतृतीयलक्षणार्थतया
दो वह्निमान् धूमादित्यादौ वयभावविशिष्टहदरु पदोपेऽतिव्याप्तिः, तादृशविशिष्टहृदादि विषयताया हृदधर्मिकवद्याद्यनुमितिप्रतिबन्धकतावच्छेदकत्वात् , घूमादिविषयतायाश्चातथात्वात् , धूमादिदुष्टहेतावव्यातिश्चेत्याशयः। अतः = निरुकातिव्याप्त्यादिदोषतः । यथाश्रुतम् = लक्षणाग्रहाजन्यशक्तिश्रमाजन्यशाब्दयोशेच्छरोच्चरितम् । लक्षणत्रमिति । प्रथमलक्षणं द्वितीयलक्षणं तृतीयलक्षणञ्चेत्यर्थः । तद्वत्वंच
* कलाविलासः धर्मिकाप्रामाण्यज्ञानाभावस्याप्यनुमितौ प्रयोजकतया तादृशप्रयोजकीभूताभावप्रतियोग्यप्रामाण्यज्ञानस्य विषयतायाः तादृशपरामर्श सत्यादित्यास्तां विस्तरः ।
तत्रत्यहेताकव्याप्तिश्चेति। अथ हृदो वह्निमान् धूमादित्यादौधूमाभाववहदरूपस्वरूपासिद्धिनिश्चयायविषयतामादाय हृदो वह्निमान् द्रव्यत्वादित्यादौ च वह्नय
"Aho Shrutgyanam"