SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ अनुमानगादाधर्यां सामान्यनिरुक्तिप्रकरणम् । * गादाधरी * यथार्थज्ञाननिष्ठानुमितिप्रतिबन्धकतावच्छेदकविषयताश्रयत्वपर्यन्तस्य समूहालम्बनशानविषयताश्रयोदासीनपदार्थवारणाय प्रथमलक्षणे विवक्षणीयतया ____ॐ चन्द्रकला के ज्ञाननिष्ठा या प्रकृतानुमितिकारणीभूताभावप्रतियोगितास्वरूपा प्रकृतानुमितिप्रतिबन्धकता तदवच्छेदकविषयताश्रयत्वं हेत्वाभासस्वमित्येवं प्रथमलक्षणार्थी वाच्यस्तथासति नोक्तोदासोनघटादायतिव्यातिः यन्निष्टविषयताकं ज्ञान प्रकृतहदादिधर्मिय हयाधनुमितिप्रतिबन्धकं भवति तन्निप्ठविषयताया एव तादृशानुमितिप्रतिबन्धकतावच्छेदकतया हृदो वह्नयभाववान् घटश्चेत्याकारकसमूहालम्बनयथार्थज्ञाननिष्ठनिरुक्तानुमितिप्रतिबन्धकतावच्छेदकत्वस्य हृदहदत्यवतिवतित्वाभावाभावत्वादिनिष्ठविषयतायामेव सत्त्वेन घटादिनिष्टविषयतायाश्च ताराप्रतिबन्धकतानवच्छेदकतया तदाश्रयत्वस्य घटादावतिव्यात्यप्रयोजकत्वात् । । एवञ्च हदो वह्निमान् हृदादित्यादिपक्षात्मकहेतुकस्थले हृदादिरूपबाधितदुष्टोतो हृदविशेष्यकवयनुमितिप्रतिबन्धकतावच्छेदकवह्नयभाववहृदादिविषयताश्रयत्वसत्वेन तिरुक्तदुष्टलक्षणसमन्वयसम्भवेऽपि हृदो वहिमान् धूमादित्यादौ बाधिते धूमादिदुष्टहेतावव्याप्तिवारणमशक्यमेव, हृदधर्मिकत्रयनुमितिप्रतिबन्धकतावच्छेदकीभूतवह्नयभाववहदादिविषयताया धूमादावसत्त्वात , धूमादिविषयतायाः ताशप्रतिबन्धकतानवच्छेदकत्वादित्याह यथार्थति । प्रकृतानुमितिकारणीभूताभावप्रतियोगितारूपेत्यादिः । समहालम्बनेति। हृदो वह्निमान् धूमादित्यादौ हृदो वह्नयभाववान् घटश्चेत्याकारकसमूहालम्वनविषयताश्रय घटादिरूपोदासीनपदार्थवारणायेत्यर्थः। प्रथमलक्षणे = अनुमितिकारणीभूताभावप्रतियोगियथार्थज्ञानविषयत्वमितिलक्षणे । विवक्षणीयतयेति । यथार्थज्ञाननिष्टानुमितिप्रतिबन्धकतावच्छेदकविषयताश्रयत्वपर्यन्तस्येति पूणान्वयः । तथाचोक्तसमूहालम्बनज्ञानविषयताया घटे सत्वेऽपि तस्या हृदधर्मिकवयनुमितिप्रतिबन्धकतानवच्छेदकत्यान्न तादृशविषयतामादाय घटेऽतिव्याप्तिरिति भावः । * कलाविलासः अत्रानुमितिप्रतिबन्धकयथार्थज्ञानविषयत्वस्यैव हेत्वाभासलक्षणत्वसम्भवे अनुमितिकारणीभूतेत्याद्यभिधानं व्यर्थीमति चेन्न, प्रतिबन्धकत्वं हि द्विविधम् , कारणीभूताभावप्रतियोगित्वरूपं प्रयोजकीभूताभावप्रतियागित्वरूपञ्च । तत्र प्रथमप्रतिबन्धकत्वस्य लक्षणघटकत्वसूचनाय कारणीभूतेत्यादेरभिहितत्वात् , अन्यथा प्रयोजकीभूताभावप्रतियोगित्वरूपप्रतिबन्धकत्वस्य लक्षणघटकत्वे ह्रदो वह्निमान् धूमादित्यादौ वह्निव्याप्यधूमवान् ह्रद इत्याकारकपरामर्शऽतिव्याप्तिः स्यात् , परामर्श "Aho Shrutgyanam"
SR No.009530
Book TitleSamanyanirukti Chandrakala kalavilas Tika
Original Sutra AuthorN/A
AuthorVamacharan Bhattacharya
PublisherSadhubela Ashram Bhadaini
Publication Year
Total Pages308
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy